*भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना।*
हिमसंस्कृतवार्ता तन्मयपाण्डेयः
वृन्दावनम्, उत्तरप्रदेशः
भक्तिवेदान्तपरिसरे लोकभाषाप्रचारसमितेः संयुक्ततत्त्वावधानेन संस्कृतसम्भाषणकार्यशाला भव्यतया आयोजिता। सम्भाषणवर्गस्य उद्घाटनसमारोहः १९ दिनांके पूर्वाह्णे ११ वादनतः प्रारब्धः।
उद्घाटनसमारोहस्य आरम्भः परिसरस्य कृष्णसुदामासभागृहे जातः । अद्यतनीय समापनसमारोहकार्यक्रमस्य सञ्चालनं स्पर्धाया: सहसंयोजकरूपेण डॉ .निशिकान्तपाण्डेयः सफलतया निर्वाहितवान्। कार्यक्रमेऽस्मिन् मुख्यातिथयः आसन् उत्तरप्रदेशतः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य तुलनात्मकदर्शनविभागस्य भूतपूर्वः प्राध्यापकः प्रो. हरिप्रसाद-अधिकारी , विहारप्रदेशात् छपराविश्वविद्यालयस्य संस्कृतविभागस्य भूतपूर्वः अध्यक्षः प्रो. बैद्यनाथमिश्रः, राजस्थानप्रदेशात् लोकभाषाप्रचारसमितेः राष्ट्रिय-उपाधक्षः डॉ. निरञ्जनसाहुः, ओडिशा प्रदेशात् लोकभाषाप्रचारसमितेः संस्थापकः डॉ . सदानन्ददीक्षितः, असमप्रदेशात् लोकभाषाप्रचारसमितेः राष्ट्रियसम्भाषणसचिवा डॉ . सागरिका भट्टाचार्यः च । प्रमुखतया उपस्थितौ आस्ताम् अस्य परिसरस्य निदेशकः श्रीमान् राधाकान्तप्रभुः, भक्तिवेदान्तविद्यालयस्य प्राचार्या श्रीदेवी महापात्रः च । तैः स्पर्धायां समागतेभ्यः सर्वेभ्यः प्रतिभागिभ्यः हार्दिकं स्वागतं कृतम्, संस्कृतशास्त्राणां संरक्षणे–प्रसारे च एतादृशीनां प्रतियोगितानां महत्त्वं प्रतिपादितं च। तदनन्तरं लोकभाषाप्रचारसमितेः संस्थापकः डॉ. सदानन्ददीक्षितः अपि स्वीयं प्रोत्साहनवचनं प्रकटितवान्।
विचारकत्वेन अध्यक्षः प्रो. हरिप्रसाद-अधिकारीमहोदयः, लोकभाषाप्रचारसमितेः राष्ट्रियोपाध्यक्षः डॉ. निरञजनसाहुः,
छपराविश्वविद्यालयस्य संस्कृतविभागस्य भूतपूर्वः अध्यक्षः प्रो.बैद्यनाथमिश्रः तथा लोकभाषाप्रचारसमितेः राष्ट्रियसम्भाषणसचिवा डा सागरिका भट्टाचार्य उपस्थिताः आसन्।
उद्घाटनसत्रानन्तरं विविधविषयेषु बह्व्यः स्पर्धाः आयोजिता आसन्। तासु प्रमुखतया— गीताकण्ठस्थीप्रतियोगिता, संस्कृसम्भाषणम्, प्रश्नोत्तरीप्रतियोगिता इत्यादयः अन्तर्भूताः आसन्।
एतासु स्पर्धासु आधुनिकविद्यालयस्य छात्राः , गुरुकुलस्य छात्राः च प्रतिभागीरूपेण उत्साहपूर्वकं भागं गृहीतवन्तः। परिसरस्य सर्वाः स्पर्धाः अतीव सुव्यवस्थिततया सञ्चालिताः। समग्रकार्यक्रमः संस्कृतविद्याया जीवंतपरम्परां सुदृढीकुर्वन् प्रतिभानां संवर्धने महत्त्वपूर्णं योगदानं विदधाति। अत्र प्रायः ११५ जनाः उपस्थिताः आसन् ।
