देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:।
हिमाचलराज्ये विमानसेवानां विस्तारं कर्तुं तथा पर्यटनं प्रोत्साहयितुं राज्यसर्वकारेण देहली- शिमला, शिमला- धर्मशाला मार्गेषु नियमितविमानसेवानां सञ्चालनस्य निर्णयः स्वीकृतः। एतानि उड्डयनानि सम्पूर्णसप्ताहं (सप्तदिनानि) प्रचलिष्यन्ति। अस्य सञ्चालनस्य निरन्तरतां सुनिश्चितं कर्तुं सर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि वित्तीयसहायतारूपेण प्रदास्यति। सर्वकारस्य प्रवक्ता अज्ञापयत् यत् मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खुमहोदयस्य नेतृत्वे वर्तमानसर्वकारः पर्यटनक्षेत्राय प्राथमिकतां यच्छति। पर्यटनं न केवलं राज्यस्य अर्थव्यवस्थां सुदृढां करोति, अपि तु युवकानां कृते जीविकाया: स्वजीविकाया: च नूतन-अवसरान् सृजति।
विमानसेवायाः प्रमुखाः लाभाः
समयस्य रक्षणम्- नियमितविमानसेवाभिः यात्राकालः न्यूनः भविष्यति, येन पर्यटकानां व्यापारिणां च कृते सुगमता भविष्यति।
आपातकालीनसेवा:- एताः विश्वसनीयाः विमानसेवाः त्वरित- चिकित्सा- निष्कासने (Medical Evacuation) तथा प्राकृतिक- आपदाकाले साहाय्यं कर्तुं महत्त्वपूर्णाः भविष्यन्ति।
आर्थिकविकासः- नियमित-उड्डयनैः राज्यस्य समग्र- आर्थिकविकासे गतिः आगमिष्यति।
हेलीपोर्ट-निर्माणं नूतनाः सेवाश्च
राज्ये विद्यमानानां त्रयाणां विमानपत्तनानां (Airports) अतिरिक्तं प्रत्येकस्मिन् जनपदे ‘हेलीपोर्ट’ इति निर्माणं क्रियते।
नूतनसेवाः-
सम्प्रति सञ्जोली-हेलीपोर्टतः चण्डीगढ- रिकाङ्गपिओ पर्यन्तं सेवाः आरब्धाः।
आगामि-योजना:-
शीघ्रमेव सञ्जोली- रामपुर- रिकाङ्गपिओ तथा सञ्जोली- मनाली (सासे हेलीपैड) मार्गेषु अपि हेलीकॉप्टरसेवाः आरप्स्यन्ते। एतदर्थं ‘नागर विमानन महानिदेशालयं’ (DGCA) प्रति प्रस्तावाः प्रेषिताः सन्ति।
