महर्षि महेश योगी वैदिकविश्वविद्यालये धर्मगुरु-जीविका-परामर्शः
ब्रह्मस्थान-करौन्दी,कटनी, मध्यप्रदेशः
महर्षि महेश योगी वैदिकविश्वविद्यालयस्य आदरणीयकुलगुरोः संरक्षणे मार्गदर्शने च 27.01.2026 तमे दिनाङ्के अपराह्ने 3:00 वादनात् आरभ्य वेदविभागेन एकदिवसीयः “धर्मगुरु जीविकापरामर्श” इति कार्यक्रमः सफलतया आयोजितः अभवत्। अस्य कार्यक्रमस्य मुख्योद्देश्यः वेदाध्ययनसम्बद्धानां छात्राणां शोधार्थिनां च कृते धर्मगुरुरूपेण उपलब्धानां जीविकासम्भावनानां, तेषां सामाजिकव्यावहारिककर्तव्यानां, तथा आधुनिककाले धर्मस्य शिक्षायाश्च भूमिकाया विषये सम्यक् मार्गदर्शनं प्रदानं कर्तुमासीत्। अस्मिन् कार्यक्रमे शैक्षिक-आध्यात्मिक-व्यावसायिकदृष्टीनां सम्यक् समन्वयः दृष्टिगोचरः अभवत्।
कार्यक्रमः उद्घाटनसत्रम्, प्रथमं तकनीकीसत्रम्, द्वितीयं तकनीकीसत्रं तथा समापनसत्रमिति चतुर्षु सत्रेषु विभक्तः आसीत्। उद्घाटनसत्रे वैदिकगुरुपूजनं मङ्गलाचरणं च सम्पन्नम्। तदनन्तरं श्रीबृजेशकुमारमिश्रमहोदयेन समागतानां अतिथीनां परिचयः, स्वागतं सम्मानं च कारितम्। ततः डॉ. आलोकचन्द्रपरिडामहोदयेन कार्यक्रमस्य परिचयः उद्देश्यम् च स्पष्टतया प्रतिपादितम्।
कार्यक्रमस्य मुख्यअतिथिरूपेण श्रीअरविन्दसिंहवर्यः, (प्रभारी,महर्षि वेदविज्ञानविद्यापीठम्)इत्यस्य गरिमामयी उपस्थिति: आसीत्। तेन वेदविज्ञानस्य समकालीनप्रासंगिकतां निरूपयन् उक्तं यत् अद्यतनपरिवर्तिते सामाजिकपरिवेशे धर्मगुरोः भूमिका केवलं कर्मकाण्डपर्यन्तं सीमिता नास्ति, अपि तु नैतिकनेतृत्वे, मूल्याधारितशिक्षायां, सामाजिकसमरसतायां, युवानां चरित्रनिर्माणे च तस्य महत्त्वपूर्णम् योगदानम् अस्ति। तेन विद्यार्थिनः वेदाध्ययनं आधुनिकसन्दर्भैः सह संयोज्य समाजोपयोगि कर्तुं प्रेरिताः।
कार्यक्रमे सारस्वतअतिथिरूपेण भारतीयसेनायां कार्यं कृतवान् कैप्टन वीरेन्द्रचौबेमहोदयः विशेषतया उपस्थितः आसीत्। तेन स्वानुभवाधारीकृत्य उक्तं यत् भारतीयसेनायां धर्मगुरोः भूमिका सैनिकानां मनोबलं सुदृढं कर्तुं, मानसिकचिन्तां न्यूनं कर्तुं, कठिनपरिस्थितिषु नैतिकसंवलनं दातुं च भवति। अनुशासिते वातावरणे वेदेषु निहिताः भारतीयसांस्कृतिकमूल्याः सैनिकानां साहस-धैर्य-कर्तव्यनिष्ठां वर्धयन्ति इति तेन प्रतिपादितम्।
कार्यक्रमस्य अध्यक्षता माननीयः कुलगुरुः प्रो. प्रमोदकुमारवर्मामहोदयः कृतवान्। स्वीयाध्यक्षीयोद्बोधने तेन वेद-यज्ञानुष्ठानविभागेन आयोजितस्य एतादृशस्य कैरियरकाउन्सलिंगकार्यक्रमस्य प्रशंसा कृता तथा च उक्तं यत् विद्यार्थिनां कृते शैक्षणिकज्ञानेन सह व्यावहारिकजीवनस्य जीविकादिशायाश्च मार्गदर्शनम् अद्यावश्यकम्। वेदशिक्षाम् आधुनिकशिक्षाप्रणाल्या सह संयोज्य जीविकोन्मुखीं समाजोपयोगिनीं च कर्तुं तेन बलं दत्तम्। अनुशासनं, निरन्तराध्ययनं, सेवाभावं च अनुसृत्य अग्रे गन्तव्यम् इति सन्देशोऽपि प्रदत्तः।
द्वितीये तकनीकीसत्रे कार्यक्रमस्य मुख्यवक्ता श्रीहरेंद्रसिंहपरमारमहोदयः धर्मगुरुरूपेण जीविकानिर्माणस्य विस्तृतसम्भावनाः विषये सारगर्भितं व्याख्यानं दत्तवान्। तेन वेद-उपनिषद्-स्मृतिग्रन्थ-भारतीयदर्शनाध्ययनेन सह संचारकौशलं, परामर्शक्षमता, मनोविज्ञानज्ञानं, समकालीनसामाजिकविषयानां बोधः च आवश्यकः इति प्रतिपादितम्। तस्य मते अद्य धर्मगुरवः केवलं धार्मिकानुष्ठानानां मार्गदर्शकाः न सन्ति, अपि तु समाजस्य नैतिकपथप्रदर्शकाः, परामर्शदातारः, प्रेरकव्यक्तित्वानि च भवन्ति। अस्मिन् सत्रे सत्राध्यक्षः प्रो. मानवेन्द्रपाण्डेयमहोदयः आसीत्, डॉ. चन्द्रशेखरमिश्रवर्येण कार्तज्ञं प्रोक्तं मञ्चसञ्चालनं च श्रीबृजेशकुमारमिश्रमहोदयेन कृतम्।
तृतीये तकनीकीसत्रे जिज्ञासासमाधानं च इति विषयम् आधारीकृत्य भारतीयसेनायां धर्मगुरुरूपेण कार्यरताः श्रीसुनीलतिवारीमहोदयः, श्रीजलजशर्मावर्यः इति महर्षिमहेशयोगीवैदिकविश्वविद्यालयस्य शिष्यौ स्वानुभवान् प्रकटीतवन्तौ। श्रीसंजयरथमहोदयः स्वीय अनुभवकथनावसरे स्वजीवनसंघर्षः, चयनप्रक्रिया, प्रशिक्षणानुभवः, सेवाकालीनाः सङ्घर्षमयक्षणानि उपलब्धयश्च उक्तवान्। शुक्लयजर्वेदस्थराष्ट्रसूक्तस्य विषये अपि प्रोक्तम्। तस्याभितं यत् – “धर्मगुरुः भवितव्यः इति चिन्तनम् उत्तमं परन्तु धर्मगुरु भूत्वा स्थातव्यः इति उत्कृष्टचिन्तनम्”। रथमहोदयस्य अनुभवाः विद्यार्थिनां कृते अत्यन्तं प्रेरणादायकाः अभवन्, येन वेदाध्ययनात् प्राप्तं ज्ञानं राष्ट्रसेवासु अपि सार्थकरूपेण उपयुज्यते इति स्पष्टम् अभवत्।अस्मिन् कार्यक्रमे प्रश्नोत्तरसत्रमपि आयोजितम्, यत्र प्रतिभागिभिः धर्मगुरुरूपेण जीविकोरावसराः, प्रशिक्षणप्रक्रिया, चयनमानदण्डाः, आयस्रोतांसि, सामाजिकप्रतिष्ठा, भविष्यसम्भावनाः इत्यादिविषयेषु प्रश्नाः पृष्टाः। वक्तृभिः सर्वे प्रश्नाः सरलतया स्पष्टतया प्रेरणादायकरीत्या च उत्तरिताः। अस्य सत्रस्य सत्राध्यक्षः श्रीगिरिजाशंकरचौधरीमहोदयः आसीत्, मञ्चसञ्चालनं डॉ. खुशेन्द्रदेवचतुर्वेदीमहोदयेन कृतम्।
समापनसत्रे डॉ. आलोकचन्द्रपरिडामहोदयः सर्वान् अतिथीन् वक्तॄन् प्रतिभागिनः सहयोगिनश्च प्रति आभारं प्रकटितवान्। समग्रतया अयं कार्यक्रमः वेद-यज्ञानुष्ठानविभागस्य एकः सार्थकप्रयासः सिद्धः, येन विद्यार्थिनां कृते धर्मगुरुरूपेण जीविकानिर्माणे नूतना दृष्टिः, स्पष्टः मार्गः आत्मविश्वासश्च प्रदत्तः।
अस्य कार्यक्रमस्य समन्वयकः प्रो. मानवेन्द्रपाण्डेयः, संयोजकः डॉ. आलोकचन्द्रपरिडा, सहसंयोजकाः डॉ. चन्द्रशेखरमिश्रः, श्रीध्रुवकुमारपाठकः, श्रीसत्यनारायणशुक्लः, श्रीबृजेशकुमारमिश्रश्च आसन्। अस्मिन् एकदिवसीये कार्यक्रमे ऑफलाइन-ऑनलाइन माध्यमेन शताधिकाः प्रतिभागिनः सक्रियतया भागं गृहीतवन्तः। विद्यार्थिनः, शोधार्थिनः, वेदाध्ययनसम्बद्धाः जिज्ञासवः च उल्लेखनीयरूपेण उपस्थिताः आसन्। सर्वैः प्रतिभागिभिः अयं कार्यक्रमः ज्ञानवर्धकः, प्रेरणादायकः, मार्गदर्शकश्च इति प्रशंसितः।
