उत्तराखण्डसंस्कृत-अकादम्याः प्रदर्शनी राज्यस्तरे द्वितीयं स्थानं प्राप्तवती।
त्रयोदशसंस्कृतग्रामाणां च ग्रामीणपरिवेशस्य दृश्यम् आसीत् आकर्षकम्।
महामहिमराज्यपाल: ले. ज. गुरमीतसिंहवर्य: अभिनन्दितवान् प्रदर्शनीम्।
हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला हरिद्वारम्।गणतन्त्रदिवसपर्वणि आयोजिते संचलने उत्तराखण्ड- संस्कृत- अकादम्या प्रदेशे सञ्चालितानां त्रयोदश आदर्शसंस्कृतग्रामाणां विषयम् आधारीकृत्य संस्कृतविभागस्य प्रदर्शनी सजीवरूपेण प्रदर्शिता। अस्यां प्रदर्शिन्यां ग्रामवासिभिः वैदिकयज्ञ-पूजनम्, सामूहिक- संस्कृत- सम्भाषणकक्षाः, ऊखल-कूटनं, हस्तपेषण- चक्रचालनं कुर्वन्तीनां महिलानां तथा पर्णग्रासस्य संस्कृतभाषायां संवादः सजीवतः निरूपितः। गढ़वाली- कुमौ- जौनसारी- चमोलीप्रदेशीय- वेषभूषाभिः अलङ्कृतैः महिला- पुरुष- बालकैः संस्कृतभाषायां संवादैः सह “जयतु संस्कृतम्, जयतु भारतम्” इत्युद्घोषैः यदा प्रदर्शनी राजपथसम्मानितमञ्चं प्रति प्रविष्टवती, तदा मञ्चे उपविष्टा: प्रदेशस्य महामहिमराज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीतसिंहः, मुख्यमंत्री पुष्करसिंहधामी, पूर्वमुख्यमंत्री भगतसिंहकोश्यारी च शासन- प्रशासनस्य अधिकारी- कर्मचारिणः सर्वे दर्शकाः च करतलध्वनिना संस्कृतप्रदर्शनीम् अभिनन्दितवन्तः। संस्कृतप्रदर्शन्यां संस्कृतग्रामाणां विविधाः क्रियाकलापाः ग्रामवासिभिः सजीवरूपेण प्रदर्शिताः। अनया प्रदर्शन्या राज्यस्तरे द्वितीयं स्थानम् प्राप्तम्। अस्मिन् अवसरे संस्कृतशिक्षासचिवः दीपककुमारः, अकादम्याः सचिवः प्रो. मनोजकिशोरपन्तः, शोधाधिकारी डॉ. हरिश्चन्द्रगुरुराणी, प्रकाशनाधिकारी किशोरीलाल रतूड़ी, डॉ. गणेशप्रसाद फोन्दणी, मनोज शर्मा, आशाराम मैठाणी, सत्यप्रसादखण्डूरी, नवीनभट्टः, माधव पौडेलः, दुर्गेश प्रसादः, पुनीत कुमारः, डॉ. करुणा गुप्ता, अरुणदीप पन्तः, ललिता भट्टा, मोहितः, सन्तोषः इत्यादयः बहवः गणमान्याः उपस्थिताः आसन्।
उत्तराखण्डसंस्कृत-अकादम्याः प्रदर्शनी राज्यस्तरे द्वितीयं स्थानं प्राप्तवती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
