शोधविभूषणम् इत्युपाधिना विभूषितः डॉ. गणेशहेगडे
हिमसंस्कृतवार्ता। गुजरातराज्यस्य वेरावलस्य श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य शोधछात्रेण गणेशहेगडे इत्यनेन समर्पितस्य “नारायणतीर्थविरचितस्य अद्वैतरत्नाकरग्रन्थस्य सम्पादनं समीक्षात्मकं अध्ययनञ्च” इत्याख्यस्य महाशोधप्रबन्धस्य कृते विश्वविद्यालयेन पीएचडी-विद्यावारिधिरिति उपाधिना सम्मानितम् । श्रीहेगडे विगतवर्षत्रयात् विश्वविद्यालयस्य दर्शनविभागाध्यक्षस्य डॉ. जानकिशरणाचार्यस्य समर्थमार्गदर्शने पाण्डुलिपिस्थग्रन्थस्य अनुसन्धानसम्पादनात्मकं कार्यं कुर्वन्नासीत् ।
श्रीसोमनाथसंस्कृतविश्वविद्यालये सम्पन्ने अष्टादशे दीक्षान्तसमारोहे कुलाधिपः गुजरातस्य गौरवान्वित-राज्यपालः श्रीमान् आचार्यदेवव्रतवर्यः, विश्वविद्यालयस्य कुलपतेः प्रो. सुकान्तकुमारसेनापतिवर्यस्य सारस्वतातिथेः श्रीलालबहादूरशात्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतेः प्रो.मुरलीमनोहरपाठकवर्यस्य च उपस्थितौ इमम् उपाधिम् प्रदत्तवान् । अस्मिन्नवसरे श्रीगणेशहेगडे ऐषमः “शोधविभूषणम्” इति सर्वश्रेष्ठशोधप्रबन्धपुरस्कारेण अथ स्वर्गीय मणिशङ्करजीवनरामपाण्ड्यापुरस्कारेण च सभाजितः ।
कर्णाटकराज्यस्य शिरसि इत्यस्य अमचिमनेग्रामे निवसतोः श्रीमती ललिता हेगडे श्रीरमेशहेगडे दम्पत्योः पुत्रोऽयं डॉ. गणेशहेगडे नवदिल्लीस्थे दिल्लीकन्नडवरिष्ठमाध्यमिकविद्यालये संस्कृताध्यापकत्वेन कार्यरतः अस्ति । विगतवर्षत्रयाद् असौ नवदिल्लीस्थ-प्रसारभारत्यां संस्कृतवार्ताप्रवाचकरूपेणापि कार्यं करोति ।
शोधविभूषणम् इत्युपाधिना विभूषितः डॉ. गणेशहेगडे
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
