Pride Moment – परमवीरचक्रविजेता सूबेदार सञ्जयकुमारः सेनायां ‘कैप्टन’ (Captain) पदेन सुशोभितः
हिमसंस्कृतवार्ता:- बिलासपुरम्।
भारतीयसेनायां सेवारतः, बिलासपुर-जनपदस्य झण्डूता- उपमण्डलस्य बकैण-ग्रामनिवासी, कारगिल- वीरः परमवीरचक्रविजेता सूबेदार सञ्जयकुमारः सम्प्रति ‘कैप्टन’ पदे पदोन्नतिं प्राप्तवान्। देहल्याः विजयचौकस्थाने गणतन्त्रदिवसस्य पावन- अवसरे सः अनेन वरिष्ठपदेन अलङ्कृतः।
अस्यां पदोन्नत्यां ‘हिमाचलप्रदेश वैटर्न सैनिक कल्याण एवं विकास समिति’ इत्यस्य प्रदेशाध्यक्षः वैटर्न कैप्टन बालकराम: शर्मा अन्ये च सदस्याः महतीं प्रसन्नतां प्रकटितवन्तः। कैप्टन बालकराम: शर्मा अवदत् यत् प्रायः ‘परमवीरचक्रम्’ सर्वोच्चबलिदानेन सह मरणोपरान्तं प्रदीयते, परन्तु कैप्टन सञ्जयकुमारः सः भाग्यशाली प्रथमसैनिकः अस्ति यः जीवितकाले एव अनेन सर्वोच्चसम्मानेन सम्मानितः अभवत्।
परमवीरचक्रविजेता कैप्टन सञ्जयकुमारः स्वस्य अनुपमवीरतया, दृढसङ्कल्पेन, राष्ट्रं प्रति समर्पणेन च न केवलं भारतीयसेनायाः प्रत्येकं सैनिकं प्रति, अपितु देशस्य सर्वेभ्यः युवकेभ्यः अपि प्रेरणास्रोतः अस्ति।
