कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेन “महाकविकालिदास-संस्कृतव्रती राष्ट्रियपुरस्कारस्य” घोषणा कृता
हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, नागपुरम्।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, पण्डितरामनारायणशर्मावैद्यस्य स्मृतौ पण्डितरामनारायणशर्मा आयुर्वेद-अनुसन्धानप्रतिष्ठानेन, स्थानीयजनपदप्रशासनेन तथा च महाराष्ट्रपर्यटनविकासमण्डलेन (नागपुरम्) सह मिलित्वा प्रतिवर्षं “महाकविकालिदास- संस्कृतव्रती-राष्ट्रिय-पुरस्कारम्” प्रददाति।अस्य पुरस्कारस्य मुख्योद्देश्यं तेषां विदुषां सम्माननं वर्तते ये संस्कृतभाषायाः प्रचाराय, प्रसाराय, विकासाय, अनुसन्धानाय च स्वजीवनं समर्पितवन्तः। विश्वविद्यालयः एतान् महानुभावान् पुरस्कृतं करोति ये संस्कृतभाषां समाजे गौरवान्वितस्थानं दापयितुं अमूल्यं योगदानं दत्तवन्तः। विश्वविद्यालयेन सम्प्रति वर्ष २०२४ तथा २०२५ कृते पुरस्काराणां घोषणा कृता। एते पुरस्काराः तिसृषु श्रेणीषु दीयन्ते: अन्ताराष्ट्रियसंस्कृतविद्वान्, वरिष्ठसंस्कृतविद्वान् तथा युवासंस्कृतविद्वान् च। अयं निर्णयः माननीयकुलगुरुणा प्रो. हरेरामत्रिपाठिमहोदयेन आहूतायां पुरस्कारचयनसमित्याः उपवेशने स्वीकृतः।
पुरस्कारविजेतृणां विवरणम् (२०२४-२०२५)
१. अन्ताराष्ट्रियसंस्कृतविद्वच्छ्रेणी:
२०२४: प्रो. सरोजा भाटे, पुणे (प्रज्ञापाठशालायाः अध्यक्षा, संस्कृतव्याकरणविदुषी)।
२०२५: प्रो. माधव देशपाण्डे, अमेरिका (मिशिगनविश्वविद्यालयस्य पूर्वप्रोफेसरः, व्याकरण-भाषाविज्ञानविशेषज्ञः)।
२. वरिष्ठसंस्कृतविद्वच्छ्रेणी:
२०२४: प्रो. कालुरी हनुमन्त राव, सिकन्दराबाद (प्रसिद्धसंस्कृतविद्वान्)।
२०२५: प्रो. कृष्णकान्त शर्मा, वाराणसी (काशीहिन्दूविश्वविद्यालयस्य पूर्वप्रोफेसरः, भारतीयदर्शनविशेषज्ञः)।
३. युवासंस्कृतविद्वच्छ्रेणी:
२०२४: प्रो. वीरनारायण पाण्डुरङ्गी, बेङ्गळूरु (वैदिकभाष्यकारः, पूर्णप्रज्ञापाठशालायाः निदेशकः)।
२०२५: डॉ. सचिन कठाले, नागपुरम् (कोलकसन्देशस्य सहसम्पादकः, संस्कृतप्रचारकः)।
पुरस्कारस्य स्वरूपम्
अस्य पुरस्कारस्य अन्तर्गतं वरिष्ठ-अन्ताराष्ट्रियविद्वद्भ्यः ५०,००० रूप्यकाणां राशिः, युवाविद्वद्भ्यः च २५,००० रूप्यकाणां राशिः प्रदीयते। एतेन सह प्रशस्तिपत्रं, अङ्गवस्त्रं, श्रीफलं च समर्प्यते। एकस्मिन् विशेषकार्यक्रमे एते सर्वे विद्वांसः सम्मानिताः भविष्यन्ति।कुलगुरुः डॉ. अतुल वैद्यः तथा कुलसचिवः डॉ. रोशन अलोने सर्वेषां पुरस्कृतविदुषां अभिनन्दनं कृतवन्तौ।
“महाकविकालिदास-संस्कृतव्रती राष्ट्रियपुरस्कारस्य” घोषणा कृता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
