विश्व-पुस्तक-मेलके साहित्याकादेम्या: बहुभाषीयः कथा-पाठः सम्पन्नः
मुख्य बिंदवः —
👉 अध्यक्षरूपेण ओडिया-लेखकः अमरेशः खडुआ-वर्यः समुपस्थितः।
👉 संस्कृत-कथा-पाठेन डॉ. युवराज भट्टराई श्रोतॄणां मनांसि समाकृष्टवान्।
👉 स्वीय-वक्तव्ये डॉ. युवराज भट्टराई कथायाः ऐतिहासिकतां विवृण्वन् भारतीय-समाजे पुरातनकालादेव कथा-प्रकथन-परम्परायाः महत्त्वं प्राकाशयत्।
👉 बहुभाषीय-कथा-पाठे संस्कृत-प्रस्तुतिः विशेषाकर्षणं जातम्।
👉 संस्कृत-कथा-पाठे डॉ. युवराज भट्टराई आकर्षणस्य केन्द्रम्।
नवीना दिल्ली, 14 जनवरी।
ऐषमो विश्व-पुस्तक-मेलकस्य अवसरे साहित्याकादेम्या बुधवासरे सायंकाले बहुभाषीय-कथा-पाठ-कार्यक्रमः सफलतया आयोजितः। अस्मिन् कार्यक्रमे भारतस्य विभिन्नासु तिसृषु भाषासु प्रख्याताः कथाकाराः स्व-स्व-भाषाभिः निज-निज-कथानां प्रभावपूर्णं कथा-पाठ-प्रस्तवनम् अकुर्वन्।
कार्यक्रममिमं प्रख्यातः ओडिया-लेखकः अमरेशः खडुआ-वर्यः अध्यक्षितवान्। अत्रावसरे खडुआ-वर्येण कथितं यत्—कथा-पाठः साहित्यस्य तदङ्गं वर्तते येन लेखकाः साक्षात् पाठकैः सह संयोजिताः भवन्ति। कथा सरलः, लोकप्रियः, प्रभावशाली च माध्यमः अस्ति येन जनानां मानसेषु नैतिकतायाः, जीवन-मूल्यानां च आधानं सुगमतया कर्तुं शक्यते। एषः बहुभाषीयः मञ्चः भारतीय-साहित्यस्य भाषिक-वैविध्यं प्रकाशयन् राष्ट्रीय-एकतायाः सुदृढीकरणम् अपि करोति।
अस्मिन् कार्यक्रमे संस्कृत-भाषायाः कथा-पाठः विशेषाकर्षणरूपेण सिद्धः। अस्मिन् अवसरे संस्कृत-साहित्यकारः डॉ. युवराज भट्टराई “तस्य परिचयः” इति शीर्षकीयां स्वीयामाधुनिकीं संस्कृत-कथां प्रभावपूर्णतया प्रास्तौत्। तस्य कथा-पाठे भाषायाः शुद्धता, भावनानां गाम्भीर्यम्, कथ्यस्य संवेदनशीलता, भाषीय-प्रवाहः च स्पष्टतया प्रकटिताः अभवन्। श्रोतृवर्गः सम्पूर्ण-मनोयोगेन कथां श्रुत्वा तस्य प्रस्तुतिं मुक्तकण्ठेन प्राशंसत्।
अत्रेदमपि विशेषतया उल्लेखनीयं यत्—डॉ. युवराज भट्टराई स्वीय-वक्तव्ये कथायाः ऐतिहासिक-पृष्ठभूमिं विवृण्वन् अवदत् यत् भारतीय-समाजे पुरातनकालादेव कथा-प्रकथनस्य समृद्धा परम्परा अस्ति। रामायण-कथा, महाभारत-कथा, भागवत-सत्यनारायण-कथा चेत्यादयः भक्ति-कथाः अस्माकं जीवनस्य आध्यात्मिक-नैतिक-सांस्कृतिक-विकासे अत्यन्तं महत्त्वपूर्णाः सन्ति।
बालकानां सन्दर्भे पञ्चतन्त्र-हितोपदेश-वेतालपञ्चविंशतिका-सन्निभा: कथाः शिक्षाप्रदाः, आनन्ददायिन्यः मनोरञ्जनपूर्णाश्च सन्ति। एतासां परम्पराणां स्मरणं कृत्वा तेन अधुनातन-सन्दर्भे अपि कथायाः अपरिहार्य-महत्त्वं प्रकाशितम्। कथाः अद्यापि समाजस्य यथार्थं, संवेदनां च प्रभावपूर्णरूपेण अभिव्यक्तीकर्तुं समर्थाः सन्ति—इति तेन प्रतिपादितम्।
डॉ. युवराज भट्टराई-वर्यस्य प्रस्तुतेः माध्यमेन एतत् सिद्धमभवत् यत् संस्कृत-भाषा अद्यापि समकालिक-विषयान् जीवनस्य यथार्थं च सशक्ततया अभिव्यञ्जयितुं पूर्णतया समर्था अस्ति। तस्य कथा-पाठः कार्यक्रमस्य प्रमुखेषु आकर्षणेषु एकतमः अभवत्।
बहुभाषीय-कथा-पाठ-कार्यक्रमे अन्यासु भाषासु अपि कथा-पाठः सम्पन्नः। तेषु कथा-पाठकेषु—
👉 ओडिया-भाषायां डॉ. एनी रायः,
👉 तेलुगु-भाषायां डॉ. दत्तेय अट्टमः,
👉 संस्कृत-भाषायां डॉ. युवराज भट्टराई—
स्व-स्व-कथाः प्रस्तुतवन्तः। विविध-भाषिक-प्रस्तुतिभिः कार्यक्रमे भाषिक-विविधतायां निहिता राष्ट्रिया एकता स्पष्टतया अनुभूता।
साहित्याकादेम्या आयोजितः अयं कार्यक्रमः विश्व-पुस्तक-मेलायां साहित्यिक-गतिविधीनां महत्त्वपूर्णः प्रकल्पः सिद्धः, यः भारतीय-साहित्यस्य बहुभाषीय-चेतनायाः सशक्तं सन्देशं समाजाय प्रायच्छत्।
विश्व-पुस्तक-मेलके सम्पन्नः साहित्याकादेम्या: बहुभाषीयः कथा-पाठः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
