KKSU Ramtek – स्वामी विवेकानन्देन भारतस्य सशक्तीकरणाय आत्मनिर्भरत्वाय च दिशा प्रदत्ता — प्रो. परागजोशीः।
स्वामी विवेकानन्द-जयंती-अवसरे भारतबोध-प्रज्ञाप्रवाह-ग्रन्थ-अध्ययन-कार्यशालायाः उद्घाटनम्।
हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, नागपुरम्।
कविकुलगुरुकालिदास-संस्कृत-विश्वविद्यालयस्य IKS-केन्द्रस्य राष्ट्रियसेवा-योजनायाश्च संयुक्ततत्त्वावधानान्तर्गतं स्वामी विवेकानन्द-जयंतीं मातृजिजाऊ-जयंतीं तथा युवा-दिवसं च उपलक्ष्य विविधाः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे संस्कृत-भाषा-साहित्य-विभागाध्यक्षः प्रो. परागजोशीः विशेष-व्याख्यानं प्रदत्तवान्।
कार्यक्रमस्य शुभारम्भः स्वामी विवेकानन्दस्य मातृजिजाऊश्च चित्रयोः पुष्पाञ्जल्यार्पणेन दीपप्रज्वलनेन च कृतः। कार्यक्रमस्य अध्यक्षतां परमपूज्य-गोलवलकर-गुरुजी-शैक्षणिक-परिसरस्य प्रमुखः प्रो. हरेकृष्ण-अगस्तीः अलङ्कृतवान्। कार्यक्रमस्य प्रस्तावनां राष्ट्रियसेवा-योजनायाः निदेशकः डॉ. जयवन्त-चौधरीः प्रस्तुतवान्। प्रस्तावनायां डॉ. चौधरीः उक्तवान् यत् प्रत्येकः विद्यार्थी स्वीयाः आन्तरिकाः क्षमताः विकासयेत्, मानसिक-स्वास्थ्यस्य च पोषणं कर्तव्यम्। तदनन्तरं विद्यार्थिषु आत्मविश्वासस्य निर्भयतायाश्च निर्माणं अत्यावश्यकम्, येन ते जीवनस्य विविधाः चुनौतयः समर्थतया समासादयितुं शक्नुवन्ति। एकाग्रता लक्ष्ये च केन्द्रीकरणं व्यक्तित्व-विकासाय अत्यन्तं आवश्यकम् इति अपि तेन प्रतिपादितम्।
स्वामीविवेकानन्दस्य जीवनचरितं अवश्यमेव अध्ययेतव्यम् – प्रो. परागजोशीः
मुख्यवक्ता प्रो. परागजोशीः स्वीय-व्याख्याने स्वामी विवेकानन्दस्य जीवनस्य विविधाः घटनाः प्रकाशयामास। सः अवदत् यत् स्वामी विवेकानन्दस्य जीवनचरितं प्रत्येकः युवा अवश्यं पठेत्, तस्मात् प्रेरणां च गृह्णीयात्। स्वामी विवेकानन्देन भारतीय-संस्कृतेः महत्त्वं विश्वस्य समक्षं प्रतिपादितम्, युवभ्यश्च स्वाभिमानस्य कर्तृत्वस्य चरित्र-निर्माणस्य च मन्त्रः प्रदत्तः।
आत्मविश्वास-राष्ट्रभक्ति-मानवसेवा-आधारिताः स्वामी विवेकानन्दस्य विचाराः अद्यापि भारतं सशक्तं आत्मनिर्भरं च कर्तुं मार्गं दर्शयन्ति। तेषां विचारानुसारं आत्मविश्वास-शिस्त-कर्तव्यबोध-राष्ट्रसेवायुक्ता युवा-पीढी एव भारतं महाशक्तिं कर्तुं समर्था। ऊर्जा-विचार-परिवर्तन-क्षमतायुक्ताः युनः राष्ट्रस्य सत्याधिष्ठाना: सन्ति इति तेन प्रतिपादितम्।
प्रो. हरेकृष्ण-अगस्तीः स्वीय-अध्यक्षीय-भाषणे मातृजिजाऊयाः त्यागं स्मारयन् आदर्श-मातृ-गुरु-स्वरूपे प्रकाशं कृतवान्। कार्यक्रमस्य सञ्चालनं राष्ट्रियसेवा-योजनायाः छात्रा ईशा-मशानकर इत्यया कृतम्।
एकविंशति-दिवसीय-ग्रन्थ-अध्ययन-कार्यशालायाः उद्घाटनम्
युवा-दिवस-अवसरे विश्वविद्यालयीय-विद्यार्थिनां कृते राष्ट्रियसेवा-योजना तथा IKS-केन्द्रस्य संयुक्ततत्त्वावधानान्तर्गतं अभिनवः उपक्रमः आरब्धः। ‘भारतबोध-ज्ञान-प्रवाह’ इति नाम्ना एकविंशति-दिवसीया कार्यशाला उद्घाटिता। विद्याभारत्या प्रकाशितायाः भारतबोध-प्रज्ञाप्रवाह-ग्रन्थमालायाः विविध-ग्रन्थानां अध्ययनं कृत्वा विद्यार्थिभिः स्वविचाराः प्रस्तुताः करिष्यन्ते।
उद्घाटन-सत्रे प्रथमं व्याख्यानं ज्योतिष-विभागस्य विद्यार्थी विष्णुवर्धनः प्रस्तुतवान्। अस्मिन् अवसरे प्रो. हरेकृष्ण-अगस्तीः अवदत् यत् एषः ग्रन्थ-अध्ययन-उपक्रमः स्वामी विवेकानन्दस्य ‘शिक्षया आत्मविकासः’ इति विचारं व्यवहारतः साकारयन् प्रशंसनीयः प्रयोगः अस्ति।
अस्य उपक्रमस्य उद्देश्यं विद्यार्थिषु स्वतन्त्र-चिन्तन-क्षमतायाः विकासः, लेखन-भाषणयोः माध्यमेन स्वविचाराणां प्रभावी-अभिव्यक्तेः कौशल-विकासश्च अस्ति। विश्वविद्यालयीयाः विद्यार्थी निर्भीकाः स्पष्ट-विचारयुक्ताश्च भवन्तु — एतदेव अस्य प्रयासस्य मूल-लक्ष्यम्।
एषः उपक्रमः IKS-केन्द्रस्य प्रमुखया प्रो. कलापिनी-अगस्तीया राष्ट्रियसेवा-योजना-समन्वयकेन डॉ. जयवन्त-चौधरीणां मार्गदर्शनेन सम्पन्नः। शिक्षां आत्मविकासस्य साधनं मन्यमानस्य स्वामी विवेकानन्दस्य विचारान् प्रत्यक्ष-उपक्रमेण साकारयितुं प्रशंसनीयम्। अस्मिन् अवसरे रामटेक-परिसरस्य सञ्चालकेन प्रो. हरेकृष्ण-अगस्तिना प्रमुख-वक्त्रा प्रो. परागजोशिना च शुभहस्ताभ्यां सर्वे सहभागी-विद्यार्थिनः प्रमाणपत्रैः सम्मानिताः।
