HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशसर्वकारेण भारतीयप्रशासनिकसेवायाः हिमाचलप्रदेशप्रशासनिकसेवायाश्च अधिकारिणां स्थानान्तरणस्य पदस्थापनस्य च आदेशाः कृताः, येन प्रमुखं प्रशासनिकं परिवर्तनं कार्यान्वितमस्ति। संशोधने सचिवालयात् जिलास्तरपर्यन्तं प्रमुखपदेषु परिवर्तनं समावेशितम् अस्ति।
अमरजीतसिंहस्य उपायुक्त हमीरपुरतः सहकार्यसचिवः इति स्थानान्तरणं कृतम् अस्ति। सी. पॉलरासुः अस्मात् पदात् मुक्तः अस्ति । अमरजीतसिंहः अधुनैव सचिवपदे पदोन्नतः अभवत् । गन्धर्वराठौर: विशेषसचिवः कार्मिकपदं त्यक्त्वा हमीरपुरस्य उपायुक्तः नियुक्तः अस्ति। 2007 वर्गस्य आईएएस अधिकारी शैनाॅमोल ए. सचिव (प्रशासनिकसुधारः, प्रशिक्षणं, एफए एण्ड आरपीजी) नियुक्त: तत्सङ्गमे तस्यै शिमलामण्डदस्य आयुक्तस्य अतिरिक्तप्रभारः दत्तः अस्ति। सा पूर्वं सचिवस्य (आयुष) अतिरिक्तदायित्वं धारयति स्म । विनोदकुमार: कांगड़ामण्डलस्य आयुक्तात् सचिव: (तकनीकीशिक्षा) इत्मत्र स्थानांतरित:। सः काङ्गड़ा मण्डलायुक्तस्य अतिरिक्तप्रभारं निरन्तरं धारयिष्यति।
प्रतीक्षासूचौ आसीत् दलीपकुमारनेगी विशेषसचिवः (राज्यकरः आबकारी च) नियुक्तः अस्ति। तस्मै विशेषसचिवस्य (उद्योग: गृहं च) इति अतिरिक्तप्रभारः अपि दत्तः अस्ति । दिव्यांशुसिङ्गलः हिमाचलप्रदेशराज्यहस्तकरघा तथा हस्तशिल्पनिगमस्य प्रबन्धनिदेशकः नियुक्तः अस्ति । सः चिकित्सासेवानिगमस्य एमडी इत्यस्य अतिरिक्तप्रभारं अपि धारयिष्यति। नेत्रा मेटी एसडीएम पालमपुरतः नगर निगम आयुक्तः, पालमपुरम् नियुक्ता अस्ति। सा एसडीएम इत्यस्य अतिरिक्तप्रभारमपि धारयिष्यति। सचिन शर्मा एसडीएम अम्ब इत्यस्मात् अतिरिक्त उपायुक्त-सह-परियोजना निदेशक: (डीआरडीए), शिमला इति नियुक्त:।
सचिवपदे पदोन्नतिं प्राप्तस्य सुदेशकुमारमोख्टा इत्यस्य स्थानान्तरणस्य आदेशः पृथक् निर्गतः भविष्यति। राज्यप्रशासनिकसेवायां परिवर्तनं कृत्वा मुख्यमन्त्रिण: अतिरिक्तप्रधाननिजीसचिवः राजीवकुमारः सूचनाजनसंपर्कविभागस्य निदेशकः च विशेषसचिवस्य (कार्मिकस्य) अतिरिक्तप्रभारं प्रदत्तम्, तदतिरिक्तं कतिपयानां प्रमुखविभागानाम् उत्तरदायित्वं दत्तम् अस्ति। कुलबीरसिंह: राणा उपायुक्त: (आश्रय: एवं पुनर्वास:), तलवाड़ा (राजा का तालाब) नियुक्त:। संजीतशर्मा इत्ययं थुनाग (मण्डी) इत्यस्य एसडीएम नियुक्तः अस्ति, रमेशकुमारं तु कार्मिकविभागे प्रतिवेदनं दातुं निर्देशः दत्तः अस्ति। सुमेध शर्मा स्वास्थ्यसेवाया: संयुक्तनिदेशक: नियुक्त:। गणेशठाकुर: संयुक्तायुक्त, नगरनिगम:, पालमपुरम् नियुक्त: अस्ति।
