Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः
हिमसंस्कृतवार्ता:- मण्डी।
मण्डी-जनपदस्य चरखडी़स्थाने एका बृहत् दुर्घटना अभवत्। निजीबसदुर्घटनायां ७५ वर्षीया महिला मृता, चत्वारः यात्रिकाः च घातिताः। घातितानां चिकित्सायाम् पाङ्गना-चिकित्सालये प्रवेशः कारितः। प्रारम्भिकसूचनानुसारं निजीबसयानस्य चालकः परिचालक: च अधुना एव बसयानं प्रारब्धवन्तौ, यात्रिकाणां प्रतीक्षां कुर्वन्तौ आस्ताम्, तदा सहसा बसयानं चलितम्, पतितम् च। अस्यां दुर्घटनायां कलावती इति ७५ वर्षीयायाः महिलायाः मृत्युः अभवत्। क्षतिग्रस्तानां मध्ये एकः लघुः बालकः, तिस्र: महिलाः च सन्ति। एकः घातितः झुगी चिकित्सालयं नीतः। पुलिसदलम् अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति। सर्वे आहता: १०८ एम्बुलेन्सद्वारा चिकित्सायै चिकित्सालयं नीता:।
बसयानस्य पतनस्य अनन्तरं स्थानीयनिवासिनः उद्धारकार्यं कृत्वा एम्बुलेन्सद्वारा आहतानाम् चिकित्सालयं प्रेषितवन्तः। दुर्घटनायाः कारणम् अद्यापि न ज्ञायते। आहताः केवलं वक्तुं शक्नुवन्ति स्म यत् बसयानं सहसा गन्तुं आरब्धम् ततः सानुतः अधः आवर्त्य दुर्घटितम् अभवत्। इयं मार्गदुर्घटना बीएसएल- पुलिसस्थानकस्य अधिकारक्षेत्रे चरखड़ीक्षेत्रे अभवत्। गर्ते यत् बसयानं पतितं स्म तत् निजी आसीत्। चत्वारः पञ्च जनाः घातिताः अभवन्। एकस्याः महिलायाः स्थितिः गम्भीरा आसीत्, सा चिकित्सालये एव मृता। जनाः एम्बुलेन्सस्य साहाय्येन घातितान् चिकित्सालयं प्रेषितवन्तः।
Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ
हिमसंस्कृतवार्ता:- सुन्दरनगरम्।
सुन्दरनगरपुलिसस्थानकस्य अन्तर्गतं सलापड़ पुलिसचौकीक्षेत्रे निर्माणाधीनसलापड़- तत्तापानीमार्गे मुनाली-उपनदस्य समीपे एका दुःखदा दुर्घटना अभवत्। एकं कारयानं नियन्त्रणात् बहिः गत्वा कोलबन्धजलाशये पतित्वा याने स्थितौ युवकौ स्थले एव मृतौ। मृतकौ बाबूराम: (29 वर्ष) पुत्र नगिनचन्द: तथा मुंशीराम: (25 वर्ष) पुत्र: कुलदीपसिंह:, उभौ ग्राम पंजोलठ, डाकघर बटवाड़ा, तहसील सुन्दरनगरम्, मंडीजनपदस्य निवासिनौ आस्ताम्। दुर्घटनापश्चात् उभौ शवौ प्राप्य शवपरीक्षायै सिविलचिकित्सालये नीतौ। सूचनां प्राप्य सलापड़पुलिसकेन्द्रस्य डीएसपी सुन्दरनगरभारतभूषणस्य नेतृत्वे एनडीआरएफ- कर्मचारिणः च दलं तत्स्थानं प्राप्य कारमध्ये स्थितानां जनानाम् अन्वेषणं कर्तुं आरब्धवान् बहु परिश्रमं कृत्वा जलाशयात् उभयोः युवकयोः शवौ प्राप्तौ। एसपी मण्डी साक्षीवर्मा इत्यनया एतस्या: घटनायाः पुष्टिः कृता तथा च उक्तं यत् अस्मिन् विषये प्रकरणं पञ्जीकृतम् अस्ति। दुर्घटनायाः कारणस्य सम्यक् अन्वेषणं क्रियते।
विधायक: सुन्दरनगरम् राकेशजमवाल: समाजसेवी अभिषेकठाकुर: अस्यां नदुर्घटनायां गभीरंशोकं प्रकटितवन्तौ अस्याः दुःखदघटनायाः कारणात् अस्मिन् क्षेत्रे शोकस्य तरङ्गः अस्ति।
