हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्।
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः राज्यसचिवालयात् शिमलातः भूटानदेशाय पाइन- नटवृक्षाणाम् उपहारं प्रदत्तवान्, येन भारत-भूटानयोः दीर्घकालीन- मैत्री- सहकार- सम्बन्धः अधिकं सुदृढः अभवत् यानं हरित्ध्वजं प्रदर्श्य प्रेषयित्वा मुख्यमन्त्री अवदत् यत् एष उपक्रमः भारतस्य भूटानस्य च मैत्री, सौहार्दपूर्णता, भ्रातृत्वस्य च प्रतीकम् अस्ति। सः अवदत् यत् भविष्ये हिमाचलप्रदेशस्य वनविभागेन भूटानदेशाय पञ्चलक्षरूप्यकाणां अतिरिक्तं पाइननटबीजानि अपि प्रदास्यते। राज्यसर्वकारः भूटानदेशस्य वनविभागस्य अधिकारिभ्यः पाइननट-वृक्षाणां वर्धनविषये प्रशिक्षणमपि प्रदास्यति। एतदर्थं शीघ्रमेव भूटानस्य वनविभागस्य दलं हिमाचलं आगमिष्यति। राज्यसर्वकारः स्थानीयमहिलासमूहान् पाइननट क्रियाकलापयोः अपि सम्मिलितं करिष्यति, तेभ्यः आर्थिकसहायतां च प्रदास्यति। मुख्यमन्त्री उक्तवान् यत् पूर्वं भूटानदेशाय ५० किलोग्रामं पाइन-नट्स बीजं प्रदत्तम् अस्ति। पाइन-नट्स पश्चिमहिमालयस्य बहुमूल्यं प्रजातिः अस्ति, या पर्यावरणसंरक्षणेन, जैवविविधतायाः, स्थानीयजीविकायाः च गहनतया सम्बद्धा अस्ति।
मुख्यमंत्री सुक्खुः अवदत् यत् वर्तमानराज्यसर्वकारः वनसंरक्षणार्थं अनेकान् उपक्रमान् कुर्वन् अस्ति, राज्ये वनव्याप्तेः विस्तारार्थं अनेकाः योजनाः कार्यान्विताः सन्ति। सर्वकारस्य प्रयत्नस्य कारणेन वनक्षेत्रं प्रायः ५५ वर्गकिलोमीटरमिततं वर्धितम् अस्ति। अस्मिन् वर्षे विभिन्नयोजनाभिः परियोजनाभिः च प्रायः ९,००० हेक्टेयर् वनभूमिः रोप्यते, येषु ६० प्रतिशतं फलवृक्षाः सन्ति।
ऊसरपर्वतानां हरितीकरणस्य उद्देश्यं कृत्वा मुख्यमन्त्री वनविस्तारयोजना कार्यान्विता भवति। एतावता अस्याः योजनायाः अन्तर्गतं ६०० हेक्टेयर ऊसरपर्वतेषु वृक्षाणां रोपणं कृतम् अस्ति। वनानां रक्षणाय, प्रबन्धनाय च २०१९ तमस्य वर्षस्य वनमित्राणां नियुक्तिः कृता अस्ति, येषां प्रशिक्षणं वृक्षरोपणं, अग्निसुरक्षा, रालनिष्कासनं च इत्यादिषु विविधेषु वनकार्येषु क्रियते राज्यसर्वकारः जनसहकारेण हरितावरणं वर्धयितुं निरन्तरं प्रयतते। एतदर्थं राजीवगान्धीवनसंरक्षणयोजना, हरितदत्तकयोजना च इत्यादयः अनेकाः योजनाः कार्यान्विताः सन्ति।
