केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः जातः
हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः, कोलकाता, पश्चिमबङ्गः। केन्द्रीय- संस्कृत- विश्वविद्यालयेन विद्यार्थिनां कौशलाभिवृद्धये प्रतिभाविकासाय च आवर्षं नैके शैक्षणिक- सांस्कृतिक- क्रीडात्मकाः कार्यक्रमाः परिचाल्यन्ते। तेषु स्पर्धात्मकः अयं युवमहोत्सवः आन्यतम्यं भजते। केन्द्रीयसंस्कृतविश्वविद्यालयस्य मान्यानां कुलपतिवर्याणां प्रो. श्रीनिवासवरखेडिमहाभागानां मनीषया ऐषमः युवमहोत्सवस्य परिपालनावसरः प्रप्रथमतया आदर्शसंस्कृतमहाविद्यालयेभ्यः प्रदत्तः इति महदानन्दसन्दोहं जनयति। पूर्वक्षेत्रीयस्य युवमहोत्सवस्य समायोजनावसरः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयेन सम्प्राप्त इति परमसौभाग्यास्पदम्। अस्मिन् पूर्वक्षेत्रीये युवमहोत्सवे षड्भ्यः राज्येभ्यः प्रतिभागिनः विविधासु स्पर्धासु भागम् अगृह्णन्। तानि तावत्– १. पश्चिमबङ्गः २. बिहारः ३. झारखण्डः ४. ओडिशा ५. मणिपुरम् ६. त्रिपुरा। तत्तद्राज्येभ्यः समागताः परिसराः महाविद्यालयाश्च तावत् १. श्रीसीताराम- वैदिकादर्शसंस्कृतमहाविद्यालयः, पश्चिमबङ्गः। २. एकलव्यपरिसरः, अगरतला। ३. श्रीसदाशिवपरिसरः, ओडिशा। ४. लक्ष्मीदेवी- शराफ- आदर्शसंस्कृतमहाविद्यालयः, झाड़खण्डः। ५. राजकुमारी- गणेशशर्मा- संस्कृतविद्यापीठम्, विहारः। ६. श्रीस्वामी- पराङ्कुशाचार्य- आदर्शसंस्कृतमहाविद्यालयः, बिहारः। ७. कलियाचक- विक्रमकिशोर- आदर्श- संस्कृत- महाविद्यालयः, पश्चिमबङ्गः। ८. डॉ. रामजीमेहता- आदर्शसंस्कृतमहाविद्यालयः, बिहारः। १०. श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठानम्, बिहारः। ११. श्रीराधामाधव- आदर्शसंस्कृतमहाविद्यालयः, मणिपुरम्। १२. भारतीचतुष्पाठी- संस्कृतमहाविद्यालयः, पश्चिमबङ्गः। १४. सरस्वती- आदर्शसंस्कृतमहाविद्यालयः, बिहारः।
युवमहोत्सवोऽयं द हेरिटेज ग्रुप ऑफ इंस्टीट्यूशंस, कोलकाता इत्यस्मिन् संस्थाने ६-८ जनवरी २०२६ दिनाङ्केषु साडम्बरं समनुष्ठितः। कार्यक्रमस्यास्य समन्वयकाः डॉ. कौशिकमालाकारमहाभागाः, सहसमन्वयकाः डॉ. शन्तनुकुमारचक्रवर्त्तीमहाभागाः विशिष्टं दायित्वं पालितवन्तः। विभिन्नादर्शमहाविद्यालयतः परिसरतश्च आहत्य त्रिशतं छात्राः छात्राश्च भागम् अगृह्णन्। मार्गदर्शकाः, मार्गदर्शिकाश्च छात्रैः सह समागता आसन्। तेषां वासव्यवस्था कोलकातास्थे विवेकानन्द- युवभारतीक्रीडाङ्गणे आसीत्। विशिष्टातिथीनां वासव्यवस्थापि तत्रैव कल्पिता। विशिष्टातिथीनां गमनागमनाय विशिष्टयानस्य व्यवस्था आसीत्। छात्राणां गमनागमनाय वासयानानि आसन्। एतेषु दिनेषु उत्तमभोजनस्य व्यवस्था अपि आसीत्। क्रीडाङ्गनम् आलोकमालाभिः, पताकाभिश्च सुशोभिता आसीत्। उद्घाटनकार्यक्रमे सम्मान्यातिथिरूपेण उपस्थिता आसन् रामकृष्णमिशन- विवेकानन्द- शैक्षणिक- शोधसंस्थानस्य प्रतिकुलाधिपतयः श्रद्धेयाः स्वामिनः आत्मप्रियानन्दमहाराजाः, संस्कृत- दर्शनविभाग- समन्वयकाः स्वामि- जपसिद्धानन्द- महाराजाश्च। विशिष्टातिथिरूपेण समुपस्थिता आसन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतयः आचार्याः श्रीनिवासवरखेड़ीमहाभागाः। उपस्थिता आसन् श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य प्रबन्धनसमित्यध्यक्षाः प्रो. सुब्रह्मण्यशर्ममहाभागाः, प्राचार्याः डॉ. सोमेशकुमारमिश्रमहाभागाश्च। समागता आसन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य छात्रकल्याणपरिषदध्यक्षाः प्रो. लीना शक्कर्वालमहोदयाः। केन्द्रीय- संस्कृत- विश्वविद्यालयस्य कुलसचिवचराः आचार्याः रञ्जितकुमारवर्मणमहाभागाः, शैक्षणिकाधिष्ठातारः डॉ. देवेन्द्रशुक्लमहाभागाः, एकलव्यपरिसरस्य आचार्यचराः प्रो. अवधेशकुमारचौबेमहाभागाश्च समुपस्थिता आसन्। अनेकेषाम् आदर्श- संस्कृत- महाविद्यालयानां प्राचार्याः, प्रबन्धनसमित्यध्यक्षा अपि समागता आसन्। केन्द्रीय- संस्कृत- विश्वविद्यालयस्य ग्रन्थालयाध्यक्षचराः डॉ. शुक्लामुखार्जीमहोदयाश्च समुपस्थिता आसन्।
उद्घाटनसत्रस्य सञ्चालनं डॉ. शङ्खशुभ्रगच्छितमहाभागाः अकुर्वन्। ध्वजारोहणेन, वैदिकमन्त्रोच्चारणेन, राष्ट्रगीतेन, कुलगीतेन च अयं कार्यक्रमः समारब्धः। विशिष्टातिथीनां भाषणं रोमहर्षकं युवकानां कृते ऊर्जावर्धकं च आसीत्। त्रिषु दिनेषु शैक्षणिकस्पर्धाः क्रीडास्पर्धाश्च संघटिताः। क्रीडास्पर्धासु हेरिटेज इति संस्थायाः क्रीडाध्यापकाः निर्णायकाः आसन्। शैक्षणिकस्पर्धासु केन्द्रीयसंस्कृतविश्वविद्यालयस्य अध्यापकाः, अन्यविश्वविद्यालयीयाध्यापकाश्च निर्णायकाः अभवन्। हेरिटेज इति संस्थायां कर्मरतः सुनीलमहाभागाः उत्तमां व्यवस्थां सम्पादितवन्तः। तेषाम् उत्तमपरियोजनया सोत्साहं छात्राः स्पर्धासु भागम् अगृह्णन्।
समापनसत्रे विशिष्टातिथिरूपेण समुपस्थिता आसन् आदर्शसंस्कृतमहाविद्यालयानां मुख्याधिकारिणः आचार्याः कुलदीपशर्ममहाभागाः। हेरिटेज इति संस्थायाः प्रबन्धनाध्यक्षाः श्रीसन्तोषकुमाररयमहाभागाः, श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य प्राचार्यचरणाः डॉ. सोमेशकुमारमिश्रमहाभागाश्च। वेदमन्त्रोच्चारणेन, राष्ट्रगीतेन, कुलगीतेन कार्यक्रमः समारब्धः। प्राचार्याः अतिथीनां स्वागतं सत्कारं च कृतवन्तः। कार्यक्रमस्य सञ्चालका आसन् शान्तिघोषमहाभागाः। डॉ. ख्यालानन्दमहाभागाः हिन्द्यामपि कार्यक्रमस्य अनुवदनम् अकुर्वन्। विशिष्टातिथीनां भाषणात् परं छात्रेभ्यः उपायनानि प्रदत्तानि। डॉ. शान्तनुकुमारचक्रवर्त्तीमहाभागाः, डॉ, कौशिकमालाकारमहाभागाश्च पुरस्कारघोषणं कृतवन्तः। सर्वाधिकम् अङ्कं प्राप्य विजयवैजयन्तीं प्राप्तवन्तः एकलव्यपरिसरस्य छात्राः। उपविजेतृषु प्रथमस्थाने आसन् श्रीसदाशिवपरिसरस्य छात्राः, द्वितीयस्थाने च कलियाचक- विक्रमकिशोर- आदर्शसंस्कृतमहाविद्यालयस्य छात्राः। पुरस्कारप्रदानान्ते सर्वेऽपि छात्राः स्वीयमार्गदर्शकैः सह सामूहिकं चित्रं गृहीतवन्तः। छात्राः सम्भूय नृत्यमपि कृतवन्तः। एवं सर्वेऽपि महान्तम् आनन्दम् अन्वभूवन्। आयोजकसंस्थानस्य श्रीसीताराम- वैदिकादर्श- संस्कृतमहाविद्यालयस्य अध्यापकाः कर्मकराः सेवाव्रतिनश्च कार्यक्रमस्यास्य साफल्याय आरात्रं श्रमम् अकुर्वन्। तत्र प्राचार्यवर्याणां दृढ़संकल्पः प्रेरणं च कार्यक्रमस्यास्य साफल्यकारणभूतम्। समन्वयकानाम् आचार्याणां कौशिकमालाकारमहाभागानां मार्गदर्शनम् अपि अत्र स्मरणार्हम्। उपप्राचार्याणां डॉ. राजेश्वरद्विवेदीमहाभागानां सप्रेम मार्गदर्शनं कार्यदक्षता च अस्य कार्यक्रमस्य साफल्यबीजभूता अस्ति। सुवीरव्यानार्जीमहोदयः, सरितामहापात्रमहोदया, सुचरितामहोदयाश्च आरात्रं परिश्रम्य कार्यक्रममिमं सफलामासुः। जयश्रीभट्टाचार्यमहोदयाः आवश्यकसामग्रीणां संरचने, विविधपत्रप्रस्तुतौ, प्रमाणपत्रलेखने च विशिष्टं दायित्वम् आपलयन्। अतिथीनां यातायातार्थं यानानां व्यवस्थापकाः आसन् डॉ. शङ्खशुभ्रगच्छितमहाभागाः। छात्रेभ्यः उत्तमं भोजनं उत्तमसेवां च प्रदातुं दृढसंकल्पा आसन् डॉ. शुभेन्दुघोषमहाभागाः, श्रीसुमितकुमारनन्दीमहाभागाः, डॉ. ख्यालानन्दमहाभागाश्च। डॉ. लोकनाथदासमहाभागाः छात्राणां यातायातव्यवस्थायां मार्गदर्शका आसन्। वन्दनाव्यानार्जीमहोदया, डॉ. गौरीभट्टाचार्यमहोदया च अतिथीनां वरणम् अकुर्वन्। देवकुमारच्याटार्जीमहोदयः, दिलीपकुमारदेमहोदयः तपननस्करमहोदयश्च अतिथीनां सत्कारकर्मणि नैपुण्यम् अदर्शयन्। एते सर्वेऽपि धन्यवादार्हाः। कार्यक्रमेऽस्मिन् स्वेच्छासेवकानां महती भूमिका आसीत्। एवं सर्वेषां मिलितसाहाय्येन कार्यक्रमस्य गुणवत्ता अवर्धत। अनेन महाविद्यालयस्य नामापि भारते सर्वत्र प्रथितम् अभवत्।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
