स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च
(जन्म12-02-1863-मृत्यु:04/07/1902)
(राष्ट्रिययुवादिवस:,जयंती विशेष:-12 जनवरी)
डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी, भागलपुर,बिहार
भारतीयसंस्कृतेः आध्यात्मिकक्षेत्रे, आधुनिकभारतस्य बौद्धिकजागरणे, विश्वमानवसमाजस्य आध्यात्मिकैक्यचिन्तने च स्वामी विवेकानन्दस्य स्थानं अत्यन्तं गौरवपूर्णं वर्तते। सः केवलं संन्यासी नासीत्, केवलं दार्शनिको नासीत्, अपि तु सः युगनिर्माता, राष्ट्रचेतनायाः प्रेरकः, मानवसेवायाः साक्षात् प्रतिमूर्ति: आसीत्। तस्य व्यक्तित्वे तेजः, करुणा, साहसम्, बुद्धिः, वैदिकदर्शनादीनि च अद्भुतरीत्या एकत्र समन्वितानि आसन्।
स्वामी विवेकानन्दः भारतस्य प्राचीनवैदिकपरम्परायाः आधुनिकव्याख्याता आसीत्। स: वेदान्तदर्शनस्य उपयोग: जनानां जीवनव्यवहारे कृतवान् । तस्य जीवनं तस्य कृतित्वं च भारतीययुवकानां कृते दीपस्तम्भवत् अद्यापि प्रकाशते।
स्वामी विवेकानन्दस्य जन्म 1863 तमेवर्षे जनवरीमासस्य 12दिनांके बंगप्रदेशस्य कोलकातानगरे अभवत्। तस्य पूर्वनाम नरेन्द्रनाथ दत्तः आसीत्। पिता विश्वनाथदत्तः प्रसिद्ध: अधिवक्ता आसीत्, येन तस्मै तर्कशक्तेः, निर्भीकतायाः च बीजानि दत्तानि। माता भुवनेश्वरीदेवी धार्मिकभावनया, करुणया, साहसेन च सम्पन्ना आसीत्, यया नरेन्द्रनाथस्य हृदये भक्तिः, संवेदनशीलता च आरोपिता। बाल्यकालादेव नरेन्द्रनाथः तीक्ष्णबुद्धिः, निर्भीकः, सत्यनिष्ठः च आसीत्। बाल्ये एव तस्य मनसि एक:प्रश्न:आसीत्— “ईश्वरः अस्ति वा?” इति । एषः प्रश्नः एव तस्य सम्पूर्णजीवनस्य मार्गदर्शकः अभवत्। नरेन्द्रनाथः कोलकातानगस्य स्कॉटिश् चर्च कॉलेज् इत्यत्र अध्ययनम् अकरोत्। तत्र सः पाश्चात्यदर्शनं, विज्ञानं, इतिहासं, तर्कशास्त्रं च गभीरतया अधीतवान्।जान स्टुअर्ट मिल्, डेविड ह्यूम, हर्बर्ट स्पेन्सर् इत्यादीनां दार्शनिकानां विचाराः तस्य मनसि प्रभावं स्थापितवन्त:। किन्तु पाश्चात्यदर्शनैः स: अन्तःकरणस्य शान्तिं न प्राप्तवान्। तस्मात् कारणात् सः भारतीययोगिनः, साधकान् , दार्शनिकान् च अन्वेष्टुं प्रवृत्तः अभवत् । तस्य प्रश्नः एक एव आसीत्— “कश्चन ईश्वरं प्रत्यक्षतया दृष्टवान् अस्ति वा?”
ईश्वरस्य अन्वेषणे नरेन्द्रनाथस्य मेलनं दक्षिणेश्वरस्थेन श्रीरामकृष्णपरमहंसेन सह अभवत् । तस्य जीवनस्य एषा एव महत्तमा घटना आसीत्। रामकृष्णपरमहंसः सरलः, अल्पशिक्षितः, किन्तु ईश्वरानुभूतिसम्पन्नः महापुरुषः आसीत्।
रामकृष्णः नरेन्द्रनाथस्य प्रश्नस्य उत्तरं न शब्दैः, अपि तु अनुभूत्या दत्तवान्। सः अवदत्— “अहं ईश्वरं तथैव पश्यामि, यथा अहं त्वां पश्यामि।” एतत् वाक्यं नरेन्द्रनाथस्य जीवनं परिवर्तितम्।
रामकृष्णस्य सान्निध्ये नरेन्द्रनाथः अद्वैतवेदान्तस्य रहस्यानि, भक्तियोगस्य माधुर्यं, कर्मयोगस्य महत्त्वं च अनुभूतवान्। गुरुकृपया सः संशयात् श्रद्धां, तर्कात् अनुभूतिं, अहंकारात् आत्मज्ञानं प्रति अगच्छत्। संन्यासदीक्षां प्राप्य नरेन्द्रनाथस्य “विवेकानन्द” इति नवीननामकरणम् अभवत् । “विवेक” इति शब्दः नित्यानित्यवस्तुविवेकं सूचयति, “आनन्द” इति आत्मानन्दं बोधयति। अनेन नाम्ना एव तस्य जीवनस्य लक्ष्यं सूचितम्— विवेकपूर्णं आध्यात्मिकजीवनं, यत् आनन्दस्य मूलम् अस्ति।
संन्यासग्रहणानन्तरं स्वामी विवेकानन्दः सम्पूर्णभारतदेशस्य पदयात्राम् अकरोत् । हिमालयात् कन्याकुमारीपर्यन्तं सः ग्रामेषु, नगरेषु, पर्वतेषु, वनप्रदेशेषु च विचरन् भारतमातुः वास्तविकस्थितिं दृष्टवान्।
एतस्यां यात्रायां सः भारतीयजनानां दारिद्र्यं, अज्ञानं, सामाजिकदुर्दशां च अवलोक्य अत्यन्तं दुःखितः अभवत्। सः अवदत्— “दरिद्रनारायणसेवा एव ईश्वरसेवा वर्तते।” एषा भावना तस्य कर्मयोगदर्शनस्य मूलाधारः अभवत्। स्वामिन: दृष्टौ भारतदेशस्य पतनकारणं आध्यात्मिकदौर्बल्यं न, अपि तु आत्मविश्वासस्य अभावः आसीत्। अतः सः भारतीययुवकान् उद्दिश्य अवदत्— “उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।”
स्वामीविवेकानन्दस्य जीवनस्य विश्वप्रसिद्धा घटना 1893 थमे वर्षे अमेरिकादेशस्य शिकागोनगरे आयोजितायां विश्वधर्ममहासभायां तस्य भाषणम् आसीत्। तस्य भाषणस्य प्रारम्भः एव इतिहासप्रसिद्धः विद्यते— “Sisters and Brothers of America” इति सम्बोधनं श्रुत्वा सभास्थले उपस्थिताः जनाः करतलध्वनिभि: तं अभिनन्दितवन्तः।
तस्मिन् भाषणे सः हिन्दुधर्मस्य उदारता, सर्वधर्मसमभावः, वेदान्तस्य सार्वभौमिकता च विश्वसमक्षे प्रतिपादितवान्। सः अवदत्—“एकं सद्विप्रा: बहुधा वदन्ति।” एतेन भाषणेन भारतदेशस्य आध्यात्मिकगौरवं पुनः प्रतिष्ठापितं जातम्, पाश्चात्यजगतः भारतदेशं नवीनदृष्ट्या अवलोकयितुं प्रारब्धवन्त:। शिकागोभाषणानन्तरं स्वामीविवेकानन्दः अमेरिका, इंग्लैण्ड्, फ्रान्स इत्यादिषु देशेषु वेदान्तदर्शनस्य प्रचारं कृतवान्। तत्र एष: वेदान्तसंघान् स्थापयामास, व्याख्यानानि दत्तवान्, शिष्यपरम्परां च निर्मितवान्। एतस्य उपदेशेषु अद्वैतवेदान्तः, कर्मयोगः, भक्तियोगः, राजयोगः च समन्वितरूपेण आसन् । एष: धर्मं केवलं आचाररूपेण न, अपि तु जीवनदर्शनरूपेण शिक्षितवान्। 1897 तमे वर्षे एष:रामकृष्णमिशन इत्यस्या: संस्थाया: स्थापनाम् अकरोत् । अस्य मिशनस्य आदर्शवाक्यं आसीत्—“आत्मनो मोक्षार्थं जगद्धिताय च।” रामकृष्णमिशनसंस्था आध्यात्मिकसाधनया सह सामाजिकसेवायाः अनुपमः समन्वयः अस्ति। शिक्षाप्रसारः, चिकित्सासेवा, आपद्सहायता, नारीशिक्षा, युवकोद्धारः एतानि सर्वाणि कार्यक्षेत्राणि अस्या:संस्थाया: मुख्योद्देश्यानि सन्ति।
स्वामीविवेकानन्द: बहुमुखीप्रतिभासम्पन्न: आसीत्।एष:
ओजस्वीवक्ता,गभीरदार्शनिकः,करुणासागरः,राष्ट्रभक्तः
युवानां प्रेरणास्रोतः च आसीत्। एतस्य वाणी अग्निवत् तेजस्विनी आसीत्, किन्तु हृदयम् करुणया पूर्णम् आसीत्। एष: शिष्यै: सह मित्रवत्, गुरुभि: सह भक्तवत्, जनसामान्यै: सह सेवकवत् व्यवहरति स्म। स्वामीविवेकानन्देन बहवः ग्रन्थाः, उपदेशाः, भाषणसंग्रहाः च रचिताः तेषु प्रमुखाःकर्मयोगः , राजयोगः ,भक्तियोगः,ज्ञानयोगः प्रबुद्धभारत (पत्रिका) आदय: सन्ति। एते ग्रन्थाः अद्यापि आध्यात्मिकसाधकानां मार्गदर्शकाः सन्ति। हा हन्त! अल्पे वयसि एव 1902 तमे वर्षे जूलाईमासस्य 4दिनांके एष: महापुरुष: शरीरत्यागं कृतवान् । नवत्रिंशत्वर्षीय: अल्पायु एव एष: अस्मान् विहाय गतः, किन्तु तस्य विचाराः, कार्याणि, प्रेरणा च अनन्तकालं यावत् स्थास्यन्ति एव।
सः सत्यमेव उक्तवान् आसीत् यत् ““मम जीवनं न, मम विचाराः कर्माणि च मम मृत्यो:अनन्तरमपि अनन्तकालं यावत् जीवितानि स्थास्यन्ति।” एष: न केवलं भारतस्य गौरवः, अपि तु सम्पूर्णमानवजातेः प्रेरणास्रोतः आसीत्। एतस्य व्यक्तित्वं आत्मविश्वासस्य, करुणायाः, विवेकस्य च आदर्शरूपम् अस्ति।
स्वामीविवेकानंदस्य जन्मदिवस: भारतसर्वकारेण 1984 ख्रिष्टाब्दात् राष्ट्रिययुवादिवसरूपेण आचर्यते। अतः अत्र वयं वक्तुं शक्नुमो यत्— स्वामी विवेकानन्दः भारतस्य आत्मा, युगस्य वाणी, मानवतायाः पथप्रदर्शकः च आसीत्।
