इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इन्दिरागांधी- प्रियभगिनी- सुखसम्मान-निधियोजनाया: अन्तर्गतं लंबितराशे: भुक्ति: शीघ्रं कर्तुं निर्देशं दत्तवान्। सः पाङ्गी, लाहौल-स्पीति:, डोडराक्वार, कुपवी इत्यादिषु दूरस्थेषु आदिवासीक्षेत्रेषु निवसतां जनानां कृते सामाजिकसुरक्षावृत्ते: लाभाय विशेषं ध्यानं दातुम् अपि आह्वानं कृतवान्।सुक्खुः अवदत् यत् राज्यसर्वकारः अपाङ्गजनानाम् कल्याणार्थं व्यापकं समावेशी च समर्थनरूपरेखां अपि विकासयति। आयसीमायाः विना विकलांगताश्रयवृत्तिं प्रदातुं सार्वभौमिकप्रवेशः सुनिश्चितः अस्ति। विकलाङ्गजनाः ₹१,१५० तः ₹१,७०० पर्यन्तं मासिकं पेन्शनं प्राप्नुवन्ति। सः अवदत् यत् शिक्षाक्षेत्रे ₹६२५ तः ₹५००० पर्यन्तं मासिकं छात्रवृत्तिः विकलाङ्गानाम् छात्राणां कृते आयसीमा विना प्रदत्ता अस्ति, येन ३१०० छात्राः लाभान्विताः भवन्ति, ₹३.७७ कोटिरूप्यकाणां राशिः च वितरिता अस्ति।मुख्यमन्त्री सुक्खुः अवदत् यत् विकलाङ्गानाम् विवाहाय २५,००० तः ५०,००० यावत् विवाहप्रोत्साहनानुदानं प्रदत्तं भवति। एतावता २१२ लाभार्थिभ्यः ७४.४९ लक्षरूप्यकाणां सहायता प्रदत्ता अस्ति। विशेषगृहेषु वृद्धाश्रमेषु च निवसतां विकलाङ्गानाम्, वरिष्ठनागरिकाणां च प्रमुखमहोत्सवेषु प्रतिव्यक्तिं ५०० रुप्यकाणाम् उत्सवानुदानं प्रदत्तं भवति, यत् २,१२८ लाभार्थिभ्यः आहत्य ७५.४३ लक्षरूप्यकाणि भवति।
