एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति।
हिमसंस्कृतवार्ता: बिलासपुरम् । एम्स् बिलासपुरं चिकित्सा-अनुसन्धानक्षेत्रे महतीं प्रगतिं कर्तुं सज्जं भवति। संस्थाने हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्याः स्थापना-प्रक्रिया आरब्धा अस्ति। एषः अत्याधुनिकः उपकरणः न केवलं अनुसन्धानस्य गुणवत्तां वर्धयिष्यति, अपि तु भविष्ये कर्करोगिणां तथा अस्थिरोगिणां (ऑर्थोपेडिक) उपचारं अधिकं सटीकं, सुलभं च सुरक्षितं कर्तुं “गेम-चेन्जर” इव सिद्धो भविष्यति। एषा यन्त्रणा प्रत्यक्षतया कर्करोगस्य उपचारं न करोति, किन्तु उपचारस्य उन्नयनाय आधारं निर्माति। अस्य रिएक्टरस्य साहाय्येन एते “स्मार्ट्” नैनो-कणाः निर्मीयन्ते, ये औषधिं शरीरस्य स्वस्थभागान् अस्पृशन्त एव, सीधैव ट्यूमरपर्यन्तं नयन्ति। अनेन केशपातः, दुर्बलता इत्यादयः दुष्प्रभावाः न्यूनाः भवन्ति, रोगिणां महती राहतिः भवति। एम्-आर्-आइ तथा सी-टी-स्कैन इत्यादि परीक्षणेषु एतेषां नैनो-कणानां प्रयोगेन कर्करोगस्य प्रारम्भिक-अवस्थायामेव अभिज्ञानम् सम्भवति। अस्याः प्रौद्योगिक्याः माध्यमेन हाइड्रॉक्सीएपेटाइट्-सदृशाः पदार्थाः सिद्ध्यन्ति, ये वास्तविक-अस्थिवत् एव कार्यं कुर्वन्ति। एतेषां पदार्थानां कृतघुट्टिकाः (घुटने), कूल्हिकाः तथा दन्त-इम्प्लान्टाः अधिकं दृढाः भवन्ति, शरीरं च तान् शीघ्रं स्वीकुरुते; तेन संक्रमणस्य सम्भावना न्यूनं भवति, पुनर्प्राप्तिः (रिकवरी) च शीघ्रा भवति। स्वदेशीय-निर्माणेन इम्प्लान्टानां मूल्यं न्यूनं भविष्यति, येन दरिद्रतमोऽपि रोगी आधुनिक-शल्यचिकित्सायाः लाभं प्राप्स्यति। विशेषज्ञाः वदन्ति यत् एषः रिएक्टरः १०० तः ३०० डिग्री सेल्सियस तापमानपर्यन्तं तथा अतिभार-दाबे कार्यं करोति। प्रयोगशालायां स नियन्त्रिताः रासायनिक-प्रतिक्रियाः जनयति, याः सामान्य-परिस्थितिषु असम्भवाः स्युः। अस्य उपयोगः न केवलं चिकित्सायां, अपि तु जल-शोधनम्, बैटरी-विकासः, प्रदूषण-नियन्त्रणम् इत्यादिषु पर्यावरण-संरक्षण-कार्येष्वपि भविष्यति। विशेषज्ञानां मतम् अस्ति यत् अनेन छात्रेभ्यः तथा वैज्ञानिकेभ्यः विश्वस्तरीय-प्रौद्योगिक्यां कार्यं कर्तुं अवसरः लभ्यते, यस्य अन्तिमः लाभः प्रत्यक्षतया रोगिभ्यः भविष्यति। एषा प्रौद्योगिकी एम्स् बिलासपुरं केवलं चिकित्सालयं न, अपि तु चिकित्सा-अनुसन्धानस्य केन्द्रं करिष्यति।
कदाचित् सामान्य-एण्टिबायोटिक-औषधानि रोगिषु प्रभावं त्यजन्ति। एषा यन्त्रणा प्रयोगशालायां उच्च-तापमान-दाबयोः नूतनान् रासायनिक-अणून् विकसितुं साहाय्यं करोति, ये जटिल-संक्रमणान् मूलतः नाशयितुं समर्थाः नूतन-औषधीनां निर्माणे उपयुज्यन्ते। यदा चिकित्साप्रौद्योगिकी तथा अनुसन्धानं संस्थानस्य अन्तः एव भविष्यति, तदा भविष्ये परीक्षणानां तथा औषधानां कृते रोगिणां महानगरान् वा महागुणित-निजी-प्रयोगशालाः परिभ्रमितुं न आवश्यकं भविष्यति। सरलतया उक्तं चेत्—एषा एकः अत्यन्तं शक्तिशालीः सुरक्षितश्च दाब-कक्षः अस्ति। प्रयोगशालायां वैज्ञानिकाः अस्मिन् रसायणानि स्थापयित्वा अत्युच्च-तापमाने तानि तापयन्ति, येन तानि नैनो-कणेषु परिवर्तन्ते; एतेषां सूक्ष्म-कणानां उपयोगः रोगिणाम् उन्नत-उपचारे भवति।
क्रयार्थं निविदा-प्रक्रिया आरब्धा
एतस्य महत्त्वपूर्ण-उपकरणस्य स्थापनायै संस्थानं पूर्णतया सिद्धम् अस्ति। एम्स् बिलासपुर-प्रशासनं तस्य क्रयार्थं निविदा-प्रक्रियां (टेंडर्) आरब्धवान् अस्ति, येन शीघ्रमेव अनुसन्धान-प्रयोगशालायां तस्य स्थापना कृत्वा रोगिहितार्थं अनुसन्धान-कार्यं प्रारभ्येत। ३० जनवरी-पर्यन्तं तस्य तकनीकी-प्रक्रिया पूर्णा भविष्यति, तथा आगामिषु मासेषु संस्थाने एषा सेवा उपलब्धा भविष्यतीति अपेक्षा अस्ति।
