संचारमन्त्रालयेन कृषिकृषककल्याणमन्त्रालयेन ग्रामीणविकासमन्त्रालयेन च सह सहमतिपत्रद्वये हस्ताक्षरं कृतम्
संचारमन्त्रालयेन नवीदिल्लीनगरे कृषिकृषककल्याणमन्त्रालयेन ग्रामीणविकासमन्त्रालयेन च सह सहमतिपत्रद्वये हस्ताक्षरं कृतम्। एतेषां ज्ञापनपत्राणां उद्देश्यं ग्रामीणनागरिकाणां कृषकाणां च कृते भ्रान्तसूचनानां निराकरणमस्ति। अस्मिन् अवसरे वदन् संचारमन्त्री ज्योतिरादित्य सिन्धिया इत्यनेन उक्तं यत् डाकविभागस्य कृषिकृषककल्याणमन्त्रालयस्य च मध्ये हस्ताक्षरितेन ज्ञापनपत्रेण अप्रमाणितकीटनाशकानां दीर्घकालीनविषयः सम्बोधितः भविष्यति। सः अवदत् यत् अनया सन्ध्या प्रत्येकं कीटनाशकस्य प्रतिरूपकस्य QR कूटाङ्कः भविष्यति। सः अपि अवदत् यत् पूर्वदशपञ्चदशदिवसीयप्रक्रियायाः स्थाने अधुना द्वित्रिदिनान्तरे प्रतिरूपकानि परीक्षणप्रयोगशालासु प्राप्नुयुः। ग्रामीणविकासमन्त्रालयेन सह हस्ताक्षरितस्य ज्ञापनपत्रस्य विषये सिन्धियामहोदयेन उक्तं यत् एषा सन्धिः भारतडाकभुगतानबैङ्केन सह एकीकरणद्वारा स्वसहायतासमूहेन सह सम्बद्धानां प्रायः १२ कोटिमहिलानां सहितं ग्रामीणजनानाम् सशक्तिकरणं प्रति केन्द्रितः अस्ति। सः अवदत् यत् अस्मिन् ज्ञापनपत्रे इलेक्ट्रॉनिक-टैब्लेट्, नकद-स्थानांतरणं, विक्रय-बिन्दु-यन्त्राणि, प्रमाणपत्राणि च माध्यमेन व्यापकं प्रशिक्षणं प्रदत्तं भविष्यति। कृषिः कृषककल्याणमन्त्री शिवराजसिंहचौहानः कृषिः ग्रामीणविकासः च देशस्य अर्थव्यवस्थायाः मेरुदण्डः इति उक्तवान्। सः अवदत् यत् एषा सन्धिः ग्राम्यजनानाम् महिलानां च अतिरिक्तजीविकायाः अवसरान् प्रदास्यति, तथैव बैंकसेवासु प्रवेशं च प्राप्स्यति। श्रीसिंहः अवदत् यत् डाकजालस्य ग्रामीणवित्तीयसेवाभिः सह एकीकरणद्वारा उपक्रमेण लाभार्थीनां मासिक-आयस्य १५ तः ३० सहस्ररूप्यकाणां वृद्धिः भविष्यति इति अपेक्षा अस्ति। उभौ मन्त्रिणौ अवदन् यत् एषा अन्तरमन्त्रालयीयपरिकल्पना संचार, कृषि, ग्रामीणविकासमन्त्रालयानाम् अन्तर्गतं समग्रं सर्वकारीयं दृष्टिकोणं प्रतिबिम्बयति। एषः उपक्रमः स्वावलम्बितभारतस्य व्यापकग्रामीणविकासस्य च दृष्टिकोणस्य समर्थनं करिष्यति।
संचारमन्त्रालयेन कृषिकृषककल्याणमन्त्रालयेन ग्रामीणविकासमन्त्रालयेन च सह सहमतिपत्रद्वये हस्ताक्षरं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
