*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*
गाजोल, मालदा
गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः भित्तिपत्रिकाप्रतियोगिता च सम्पन्ना जाता।
छात्राणां सर्वाङ्गीणविकासं सांस्कृतिकचेतनां च प्रोत्साहयितुं गाजोलमहाविद्यालयस्य उपक्रमेण स्टूडेन्ट्स् वीक् सेलिब्रेशन–२०२६ इत्यस्य अवसरे भव्यः अन्नमहोत्सवः भित्तिपत्रिकाप्रतियोगिता च आयोजिता। ३ जनवरी २०२६ दिनाङ्कतमे दिनाङ्के गाजोलमहाविद्यालयस्य प्राङ्गणे महान् उत्साहः उल्लासश्च दृश्यते स्म।
अस्मिन् कार्यक्रमे मुख्यपोषकत्वेन गाजोलमहाविद्यालयस्य संचालनसमितेः अध्यक्षः श्री अजीत् विश्वासः उपस्थितः आसीत्। संचालनसमितेः सदस्यः माननीयः प्रसूनरायः अपि कार्यक्रमे भागं जग्राह। महाविद्यालयस्य अध्यापकप्रधानः डॉ. मनोजकुमारभोजमहोदयः पृष्ठपोषकत्वेन दायित्वं निर्वहन् कार्यक्रमस्य शोभां वर्धितवान्। सम्पूर्णकार्यक्रमस्य आह्वायकत्वं शिक्षकपरिषदः सचिवः डॉ. निरंकुशचक्रवर्तीमहोदयः अकरोत्। अस्य कार्यक्रमस्य मुख्यपरामर्शदातारूपेण अध्यापिका समाप्तिपाल: तथा डॉ. दीपंकरकुण्डुः स्वमहत्त्वपूर्णं योगदानं दत्तवन्तौ।
अन्नमहोत्सवे महाविद्यालयस्य दशविभागानां छात्र-छात्राः भागं गृहीत्वा विंशतिः अन्नस्तलान् अलंकृतवन्तः। ग्रामीणबङ्गस्य पारम्परिकस्वादात् आरभ्य विभिन्नप्रदेशानां लोकप्रियाणि भोजनानि अत्र प्रदर्शितानि। अन्नतैयारी-प्रस्तुतीकरणयोः आधारितः प्रतियोगितापि आयोजिता, यत्र सहभागिनां सृजनशीलता कौशलं च परीक्षितम्। विविधविभागानां भित्तिपत्रिकाः अपि सर्वेषां दृष्टिम् आकर्षितवनत्य:। निर्णायकत्वेन सामसी-महाविद्यालयस्य विभिन्नविभागानां अध्यापकाः तथा स्थानीयपत्रकाराश्च उपस्थिताः आसन्।
वक्तृत्वकाले संचालनसमितेः सदस्यः श्रीप्रसूनरायः छात्राणां नवोन्मेषशक्तिं सामूहिककार्यस्य महत्त्वं च प्रशंसितवान्। एतादृशैः कार्यक्रमैः छात्राणां आत्मविश्वासः सामाजिककौशलं च वर्धते इति भावं प्रकटितवान्। अध्यापकप्रधानः डॉ. मनोजकुमारभोजेमहोदयः अपि अवदत् यत् अध्ययनेन सह सहशैक्षिकक्रियाकलापाः छात्रजीवनस्य अविभाज्यानि अङ्गानि सन्ति। इमानि अङ्गानि भविष्यज्जीवनाय छात्रान् सुसज्जान् कुर्वन्ति।
कार्यक्रमस्य समापनकाले आयोजकसमितिपक्षतः मुख्यपरामर्शदात्री अध्यापिका समाप्तिपाल: सर्वेषां प्रति कृतज्ञतां प्रकटयित्वा स्वयंसेवकानां भूयसीं प्रशंसाम् अकरोत्। आनन्दोत्साहसौहार्दपूर्णे वातावरणे सम्पन्नः अयं अन्नमहोत्सवः प्रतियोगिताश्च गाजोलमहाविद्यालयस्य छात्रसप्ताहोत्सव: विशेषगौरवम् अददत्।
