संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।
कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण काशीविश्वनाथमन्दिरस्य मुख्यकार्यपालनाधिकारिणः श्रीविश्वभूषणमिश्रवर्याः आसन्। कार्यक्रमस्य अध्यक्षतां सान्दिपनि-वेदविद्या-प्रतिष्ठानस्य उपाध्यक्षाः प्रो० हृदयरञ्जनशर्मवर्यैः कृतम्। मुख्यवक्तृरूपेण श्रीसोमनाथ-संस्कृत-विश्वविद्यालयस्य कुलपतिचराः प्रो० गोपबन्धुमिश्रमहाभागाः समुपस्थिताश्चासन्। प्रास्ताविक-भाषणं संस्कृतभारत्याः प्रान्तमन्त्री श्रीनागेशपाण्डेयमहोदयेन कृतम्। धन्यवादज्ञापनं संस्कृतभारत्याः काशीप्रान्ताध्यक्षः प्रो० रामनारायण द्विवेदीवर्येण कृतम्। प्रबोधनवर्गस्य आयोजनं संस्कृतभारत्याः क्षेत्रसङ्घटनमन्त्री श्रीप्रमोदपण्डितवर्यः एवं प्रो. रामनारायणद्विवेदी महोदयस्य निर्देशने जातम्। मुख्यातिथयः श्रीविश्वभूषणमिश्रवर्यैः उक्तं यत् भारतीयसंस्कृतिः संस्कृतभाषायामेव निहिता अस्ति। तथा च विश्वेस्मिन् सर्वाधिका व्यवहृत्यमाणा भाषा संस्कृतमेव अस्ति। संस्कृतं स्वजीवने आचरन्तु अवतारयन्तु च । निरन्तरं संस्कृतप्रचाराय प्रसाराय प्रयासः अस्माभिः करणीयः इति मुख्यवक्तृत्वपदं अलङ्कुर्वन्तः प्रो. गोपबन्धुमिश्रवर्यैः कथितम्।
अध्यक्षीय उद्बोधने प्रो० हृदयरञ्जनशर्ममहोदयैः कथितं यत् भारतीय-ज्ञान-परम्परायाः संवाहिका भाषा संस्कृतभाषा एवास्ति। कार्यक्रमस्य सञ्चालनं वर्गार्थी चिरञ्जिवमिश्रेण कृतम्। वर्गाथिन्या सत्यया दिव्यया च गीतं प्रस्तुतम्। कार्यक्रमेस्मिन् समागतानाम् अतिथीनां परिचयं स्वागतञ्च डॉ. शालिग्रामत्रिपाठी वर्येण कृतम्। दीक्षान्तसमारोपकार्यक्रमस्य आचरणं 30/12/2025 दिनाङ्के प्रातःकाले सञ्जातम्। कार्यक्रमेस्मिन् प्रामुख्यतया डाॅ. अशोकचौधरी, डॉ. अमरचन्द्रठाकुरः, डॉ. शैलेन्द्रदिक्षितवर्य:, श्रीरामपाण्डेय:, श्रीविमलपाण्डेय:, शिवम:, विवेक: ओमशुक्लः, राजनः इत्यादयः उपस्थिताः आसन्।
