डीएवी पुलिस पब्लिक विद्यालयस्य छात्रैः प्रान्तस्तरे पुरस्काराः प्राप्ताः
सिरसानगरस्य डीएवी पुलिस पब्लिक विद्यालयस्य मेधावीभिः विद्यार्थीभिः कुरुक्षेत्रे आयोजितायाम् अन्तर्राष्ट्रीय- गीतासंवाद-प्रतियोगितायां राज्यस्तरे द्वितीयस्थानं प्राप्तम्। एतेन न केवलं विद्यालयस्य, अपि तु सम्पूर्णस्य सिरसा-जनपदस्य मानसं गौरवेण पूर्णम् अभवत्। एषा अद्वितीया सफलता विद्यालयस्य उत्तम- शैक्षणिक-सांस्कृतिक-परम्पराणां पुनः प्रमाणम् अस्ति।
विद्यालयप्राचार्यः नरेन्द्रसिंह दहिया महोदय: विद्यार्थिभ्यः, तेषां पालकेभ्य:, समग्र- विद्यालय- परिवाराय च हृदयपूर्वकं अभिनन्दनं दत्त्वा अवदत्— “बालै: एतत् उत्कृष्टं प्रदर्शनं विद्यालयस्य अनुशासित- वातावरणस्य, नैतिकमूल्यानां, निरन्तरपरिश्रमस्य च फलम् अस्ति। विद्यालयः सर्वदा विद्यार्थिनः आधुनिकशिक्षया सह भारतीयसंस्कारैः संयोजयितुं प्रतिबद्धः अस्ति। एषा सफलता तस्य दिशायां महत्त्वपूर्णं प्रयत्नं दृश्यते।” विद्यालयस्य संस्कृतशिक्षकः बलजिन्द्रकुमारः, य: छात्रान् संवादकलायाम् निपुणः कृतवान्, अवदत् यत्- “एषा प्रतियोगिता त्रिषु चरणेषु खण्डस्तरे, जिलास्तरे, राज्यस्तरे च आयोजिताऽभूत्। अस्माकं विद्यार्थिभिः खण्डस्तरे प्रथमस्थानम्, जिलास्तरे तृतीयस्थानम्, राज्यस्तरे अन्ततः द्वितीयस्थानम् प्राप्तम्। गतद्वाभ्यां वर्षाभ्यां राज्यस्तरे सांत्वनापुरस्कारः प्राप्तः, किन्तु अस्य वर्षस्य दृढसंकल्पं विशेषपरिश्रमं च कृत्वा 66 दलेषु अद्वितीयं प्रदर्शनं कृतम्।”
कुरुक्षेत्रात् प्रत्यागत्य विद्यार्थिभिः विश्वविद्यालये आयोजिते जिलास्तरीये गीतामहोत्सवे पुनः स्वां विलक्षणां प्रतिभां प्रदर्शिता। तत्र उपस्थिताऽसन् जिला-शिक्षाधिकारी सुनीता साईं, येन अवोचत् “एते विद्यार्थी जिलागौरवस्य प्रतीकाः। एषां संवादप्रस्तुतीकरणम् अविस्मरणीयम् अत्यन्तं प्रशंसनीयम् च।”
प्राचार्यः दहिया महोदयः पुनरवदत् “विद्यालयः सदा प्रयत्नशीलः अस्ति यत् अस्माकं विद्यार्थीन: तांत्रिकसामर्थ्यस्य उन्नतिं प्रति गच्छन्तः अपि भारतीयसंस्कृत्या, नैतिक-आदर्शैः च संयुक्ताः भवेत्। एतादृशी प्रतियोगिता विद्यार्थिषु आत्मविश्वासम्, शैक्षणिक- उत्कर्षं, सांस्कृतिकगौरवं च विकासयति।”
अन्ते समग्र विद्यालयपरिवारः विजेतृ-विद्यार्थिनीं परिनीता, विजेतारं भूपिन्दरम् अभिनन्द्य तयोः उज्ज्वल- भविष्यस्य शुभाशंसनं कृतम्। एषा उपलब्धिः निःसंशयं विद्यालयस्य सिरसा जिलाया: च प्रेरणास्रोतः अस्ति।
डीएवी पुलिस पब्लिक विद्यालयस्य छात्रैः प्रान्तस्तरे पुरस्काराः प्राप्ताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
