प्रज्ञाभारती डॉ. श्री. भा. वर्णेकर द्वारा ‘श्रम एव जयते’ नवयुगस्य मन्त्र: कथित:
हिमसंस्कृतवार्ता:-
कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयस्य संस्कृतभाषा एवं साहित्यविभागेन प्रज्ञाभारती श्री. भा. वर्णेकरसभागारे स्वर्गीया प्रज्ञाभारती डॉ. श्री. भा. वर्णेकरस्मृतौ व्याख्यानमालाया: आयोजनं कृतम्। विद्यावाचस्पतिः डॉ. स्वानंद: गजानन: पुण्डः अस्याः व्याख्यानमालायाः पञ्चमपुष्परूपेण विशेषवक्तारूपेण उपस्थितः आसीत्। अपि च प. पू. गोलवलकर गुरुजी शैक्षणिकपरिसरस्य निदेशक: प्रो. हरेकृष्ण अगस्ती विशेषेण उपस्थित: आसीत्। संस्कृत- संस्कृतेतर- भाषासंकायस्य अधिष्ठाता- प्रो. कविता होले अध्यक्षतां कृतवती। मञ्चे संस्कृतभाषा- साहित्यविभागप्रमुखः प्रो. परागजोशी तथा व्याख्यानमालाया: संयोजकः आधुनिकभाषाविभागप्रमुखः डॉ. राजेन्द्रजैनः मञ्चे उपस्थिताः आसन्। व्याख्यानमालाया: संयोजक: डॉ. राजेन्द्रजैन: परिचयं प्रस्तुतवान्।‘प्रज्ञाभारती डॉ. श्री. भा. वर्णेकर: इत्यनेन लिखिताया: “श्रमगीता” एकविवेचनम्” इति विषयस्य माध्यमेन प्रख्यातः संस्कृतविद्वान् डॉ. स्वानंद: गजानन: पुण्डः श्रमगीतातः श्लोकान् आकर्षयन् भारतीयज्ञानपरम्परायाः महत्त्वं प्रकाशितवान्। श्रमगीता अद्यत्वे अपि प्रासंगिकं वर्तते, श्रमस्य मूल्यं महत्त्वं च द्वयमपि अक्षुण्णं वर्तते इति उक्तवान्। भारतीयज्ञानपरम्परायां श्रमः केवलं न भवति शारीरिकं मन्यते, अपि तु मानसिकं बौद्धिकं च प्रयत्नः इति पूज्यते सत्यमेव यत् श्रमः व्यक्तिं प्रति सम्मानं जनयति।
भारतीयसंस्कृतौ श्रमस्य महत्त्वं ज्ञात्वा प्रज्ञाभारती डॉ. वर्णेकरः “श्रम् एव जयते” इति वाक्यं कल्पयित्वा नूतनयुगस्य मन्त्रः इति वर्णितवान्। श्रमगीतायाः भाषा सरला, ऋजु, संक्षिप्ता च अस्ति। प्रज्ञाभारतीवर्णेकरस्य लेखनानि सरलरूपेण संस्कृतं कथं लेखितव्यम् इति जीवन्तम् उदाहरणम् अस्ति। नागपुरनगरस्य गौरवस्य संस्कृतविद्वान् डॉ. वर्नेकरस्य नाम्ना आयोजिते अस्यां व्याख्यानमालायां मां वक्तारूपेण आमन्त्रयितुं आयोजकानाम् आभारं प्रकटितवान्।प्रो. कविता होले अध्यक्षीये सम्बोधने “उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथै” इति संस्कृतस्य सुभाषितम् उद्धृत्य उद्यमशीलतायाः महत्त्वं प्रस्तावितवान्। सः अवदत् यत् श्रमं विना व्यक्तिगतविकासः सम्भवः नास्ति, समाजः प्रगतिमार्गे गन्तुं न शक्नोति, न च राष्ट्रप्रगतिः सम्भवति। अत एव अद्यत्वे अपि श्रमगीता प्रयोज्या। विश्वविद्यालयस्य संपर्काधिकारिणी डॉ. रेणुका बोकारे अकथयत् यत् कार्यक्रमस्य संयोजनं प्रो. राधा देशकर इत्यनेन कृतं, संस्कृतभाषा- साहित्यविभागप्रमुखः प्रो. पराग जोशी धन्यवादमतप्रस्तावम् अकरोत्। अस्यां व्याख्यानमालायां विश्वविद्यालयस्य सर्वे अधिष्ठातार:, विभागाध्यक्षाः, प्राध्यापकाः, छात्राः च उपस्थिताः आसन्। एकतायाः मन्त्रेण कार्यक्रमस्य समापनम् अभवत्।
प्रज्ञाभारती डॉ. श्री. भा. वर्णेकर द्वारा ‘श्रम एव जयते’ नवयुगस्य मन्त्र: कथित:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
