महाराष्ट्रसर्वकारस्य कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभागाय कविकुलगुरु-कालिदाससंस्कृत-विश्वविद्यालयेन द्वौ पाठ्यक्रमौ निर्मितौ
हिमसंस्कृतवार्ता: – नागपुरम्।
महाराष्ट्रराज्यकौशलविकाससभाया: संस्कृतविश्वविद्यालयस्य च संयुक्ताश्रयेण २१ दिवसीयस्य कर्मकाण्डप्रशिक्षणस्य आयोजनम्।
महाराष्ट्रसर्वकारेण कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयाय प्रमोदमहाजनकौशल-उद्यम-विकास-अभियानम्, अस्याः योजनायाः च अन्तर्गतं २०२७ तमे वर्षे आयोजिते सिंहस्थनासिककुम्भमेला-पर्वणि पूजाविधि:-पुरोहित-प्रशिक्षण-आधारितं विशेषं लघुप्रमाणपत्रपाठ्यक्रमं निर्मातुं निर्देशः दत्तः आसीत् । अस्य निर्देशानुसारं विश्वविद्यालयेन द्वयोः पाठ्यक्रमयोः निर्माणं कृतम् अस्ति । सिंहस्थोत्सवे सनातनधर्मस्य प्रचारार्थं धार्मिक, पुरोहितसेवा, पूजाविधि: च क्षेत्रे जीविकाया: अवसरान् लक्ष्यीकृत्य केन्द्रीकृताः सन्ति। अस्य मुख्योद्देश्यं सम्यक् प्रशिक्षणं दातुं भवति ।
महाराष्ट्रसर्वकारस्य कौशलविकास, रोजगार, उद्यमिता तथा नवीनता विभागस्य, महाराष्ट्रराज्यकौशलविकाससभाया:, मुम्बई तथा च कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य वैदिकविज्ञानविभागस्य संयुक्त तत्वावधानेन नासिकसिंहस्थस्य पृष्ठभूमितः श्रीस्वामी अखण्डानन्दवेदवेदाङ्गमहाविद्यालये श्रीकैलाश मठ:, नासिकम् इत्यत्र २१ दिवसीयः संस्कारप्रशिक्षणवर्गः आयोजितः भविष्यति। उपर्युक्तवर्गे आयोजनस्य अवधारणा माननीयः मंत्री कौशलविकास:, जीविका, उद्यमिता एवं नवीनताविभाग: श्री मंगलप्रभातलौढा इत्यनेन प्रदत्ता।
उपर्युक्तस्य २१ दिवसीयस्य प्रशिक्षणवर्गस्य उद्घाटनं माननीयमन्त्रिणा विश्वविद्यालयस्य माननीयकुलपतिना च आभासीमाध्यमेन १६-१२-२०२५ दिनाङ्के भविष्यति।
अविश्वविद्यालयस्य कुलपति: डॉ. अतुलवैद्यस्य निर्देशानुसारं वेदविद्या संकायस्य अधिष्ठातु: प्रो.हरेकृष्ण अगस्तीवर्यस्य अध्यक्षतायाः अधीनं उपर्युक्तविषये मार्गदर्शकसमितिः निर्मिता, समितिः वैदिकविज्ञानविभागस्य प्रमुखः डॉ. अमितभार्गवः सचिवरूपेण; सदस्यत्वेन व्याकरणविभागप्रमुख डॉ. जयवन्तचौधरी सदस्य: एवं शास्त्रविद्यागुरुकुलस्य वेदप्राध्यापक: डॉ. निशांतमिश्र: भविष्यन्ति।
अस्य पाठ्यक्रमस्य लाभाः
• सर्वकारीयं मान्यताप्राप्तं प्रमाणपत्रम्।
• कुम्भमेलायां सेवाया: अवसर:।
• कौशलविकासः उद्यमशीलतावर्धनं च।
• नासिकमहाकुम्भे पुरोहितत्वप्रशिक्षणं धर्मं, संस्कृतिं, सेवां च जीवनस्य उद्देश्यं मन्यमानानां कृते व्यक्तित्व-अवकाशान् प्रदातुं शक्नोति । पुरोहितत्वप्रशिक्षणेन एतेषां युनां कृते जीविकाया: अवसराः प्राप्यन्ते। महाकुम्भः केवलं श्रद्धायाः उत्सवः एव नास्ति, अपितु संवादस्य वैश्विकविस्तारस्य च शक्तिशालिनः माध्यमः अपि अभवत् । अतः उपर्युक्त प्रशिक्षणं सनातनधर्मस्य वैश्विकप्रवर्धनार्थं वसुधैव कुटुम्बकस्य भावनायाः आधारेण कार्यं कर्तुं च लाभप्रदं भविष्यति।
