शिक्षाविभागेन पुनरावर्तनं कृतम्! २४ होरासु परिवर्तित: निर्णय:, सम्प्रति विद्यालयाः ३१ दिसम्बरपर्यन्तं वार्षिककार्यक्रमानाम् उत्सवं कर्तुं शक्नुवन्ति
हिमसंस्कृतवार्ता:- शिमला।
शिक्षाविभागेन सर्वकारीयविद्यालयेषु वार्षिककार्यक्रमं कर्तुं ३१ दिसम्बरपर्यन्तं शिथिलता प्रदत्ता अस्ति। एषा शिथिलता केवलं २०२५ वर्षस्य कृते अस्ति। विद्यालयशिक्षानिदेशालयेन अनुमतिः प्रदत्ता अस्ति। परन्तु पूर्वं दिसम्बरमासे वार्षिककार्यक्रमं कृतवन्तः सर्वकारीयविद्यालयाः नवम्बरमासे किमर्थं आयोजनं कर्तुं न शक्नुवन्ति इति व्याख्यातव्यं भविष्यति। अस्य विषये १५ जनवरीपर्यन्तं विद्यालयप्रबन्धनेन प्रतिवेदनं दातव्यम्। इदमपि उक्तं यत् ३१ दिसम्बर् दिनाङ्कात् परं विद्यालयेषु वार्षिककार्यक्रमाः कस्यापि परिस्थितौ न भवेयुः, यदि निर्देशानां अनुसरणं न क्रियते तर्हि कठोरकार्यविधि: भविष्यति। अस्य विषये विद्यालयीय- शिक्षानिदेशालयेन सर्वेभ्यः विद्यालयीय- शिक्षा उपनिदेशकेभ्यः पत्रं लिखितम् अस्ति।
ज्ञातव्यं यत् २०२४ तमे वर्षे शिक्षाविभागेन निर्देशाः कृताः यत् विद्यालयेषु वार्षिककार्यक्रमाः नवम्बरमासस्य प्रथमदिनात् ३० दिनाङ्कपर्यन्तं भवेयुः। परन्तु अस्मिन् वर्षे बहवः विद्यालयाः एतेषां निर्देशानां अनुपालनं न कृतवन्तः। तदनन्तरं मंगलवासरे विद्यालयीय- शिक्षानिदेशालयेन सर्वेषां मण्डलानाम् उपनिदेशकान् प्राचार्यान् मुख्यशिक्षकान् च पत्रं निर्गत्य दिसम्बरमासे सर्वकारीयविद्यालयेषु वार्षिककार्यक्रमस्य आयोजनस्य दृढ़तया संज्ञानं गृहीतम्, परन्तु तदनन्तरं बुधवासरे निदेशालयेन निर्देशेषु संशोधनं कृत्वा विद्यालयेषु वार्षिककार्यक्रमं कर्तुं ३१ दिसम्बरपर्यन्तं शिथिलता प्रदत्ता।
