प्रत्येकं पर्यटनपरियोजना १४ दिवसेषु निवृत्ता भविष्यति- मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलसर्वकारेण पर्यटननिवेशप्रवर्धनपरिषदः सङ्घटनस्य नियमाः अन्तिमरूपेण निर्धारिताः। पर्यटनस्य प्रमुखसचिवेन अधिसूचना कृता अस्ति। संविधानस्य अनुच्छेदस्य ३४८ इत्यस्य उपयोगेन एषा परिषद् निर्मिता अस्ति। मुख्यमन्त्री हिमाचलप्रदेश- पर्यटननिवेशप्रवर्धनपरिषदः अध्यक्षः भविष्यति, पर्यटनमन्त्री उपाध्यक्षत्वेन नियुक्तः अस्ति। अस्मिन् प्रारूपे जन आक्षेपाः १५ दिवसेषु आमन्त्रिताः सन्ति। तदनन्तरम् अन्तिमसूचना निर्गता भविष्यति। प्रारूपानुसारम् एतेषु नियमेषु परिषदः मासे एकवारं समागमः करणीयः, ६०% सदस्यानां सहभागिताया: आवश्यकता च आवश्यकी भवति। इयं परिषदः केवलं ₹50 कोटिरूप्यकाधिकानां पर्यटन- परियोजनानां निरीक्षणं करिष्यति, एतासां परियोजनानां शुल्कं ग्रहीतुं शक्नोति च। प्रवर्तकाः स्वपरियोजनाभिः, निरीक्षणसूचौ प्रदत्तैः अभिलेखै: च परिषदि आवेदनं करिष्यन्ति। पर्यटनपरियोजनानाम् आवेदनशुल्कं ₹१० लक्षम् आवासपरियोजनानां कृते च ₹२० लक्षं भवति।
प्रस्तावस्य प्रस्तुतेः १४ दिवसेभ्यः अन्तः परिषदः निर्णयः करणीयः भविष्यति। यदि अन्यविभागं गच्छति अथवा किमपि आक्षेपः उत्थापितः भवति तर्हि आगामिषु १० दिवसेषु एते आक्षेपा: अवश्यमेव निष्कासितव्या:। परिषदि प्रदत्तस्य प्रत्येकस्य परियोजनायाः षण्मासाभ्यन्तरे अनुमोदनं करणीयम्। यदि परियोजनायाः समये प्रवर्तकः किमपि मिथ्यासूचनां ददाति तर्हि सुरक्षाराशिः निक्षेपयितुं शक्यते। आवेदनपत्रेण सह ११ प्रकारस्य अभिलेखकरणस्य औपचारिकता पूर्णा कर्तव्या भविष्यति, यस्याः निरीक्षणसूची संलग्ना अस्ति। उल्लेखनीयं यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः पर्यटनक्षेत्रस्य विकासाय एतस्य परिषद: सङ्घटनस्य निर्णयं कृतवान् आसीत्, यया केवलं प्रमुखपर्यटनपरियोजनानां निरीक्षणं भविष्यति।
