HP Vidhan Sabha Session- जयरामठाकुरः सामाजिकमाध्यमपृष्ठेषु टिप्पणीषु आपत्तिं कृतवान्; मुख्यमंत्री सुक्खुः अददत् प्रतिक्रियाम्
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, धर्मशाला।
प्रश्नसमये विपक्षस्य नेता जयरामठाकुरः सामाजिकमाध्यमपटलेषु तस्य विरुद्धं क्रियमाणासु टिप्पणीसु आपत्तिं कृतवान्। सः अवदत् यत् भाजपानेतृणां प्रतिष्ठां कलङ्कयितुं सर्वकारेण एकस्यै संस्थायै इत्यस्य कार्यं नियुक्तम्। सः अवदत् यत् संस्थाया: वित्तपोषणं सर्वकारीयनिधिना क्रियते। एषा व्यवस्था सम्यक् नास्ति।
तस्य प्रतिक्रियारूपेण मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भाजपायाः सूचनाप्रौद्योगिकीप्रकोष्ठेन तस्य विरुद्धं बहु किमपि लिख्यन्ते, परन्तु सः एतादृशानां टिप्पणीनां अवहेलनां करोति। भाजपा-संस्थायाः सूचनाप्रकोष्ठेन तस्य “राधे- राधे” वक्तव्यस्य अर्धमेव चलचित्रं सामाजिक-माध्यमेषु प्रसारितम्, यद्यपि सः बालकान् पृष्टवान् यत् “राधे-राधे” इति किमर्थं वदन्ति, तस्य अर्थः किम् इति। काऽपि संस्था सर्वकारेण न चाल्यते। इदानीं विपक्षनेता अवदत् यत् संस्थाविषये सर्वकारस्य सूचना नास्ति इति दुःखदम्। सः आरटीआई-अनुरोधद्वारा सूचनां प्राप्तवान्, प्राथमिकी अपि पञ्जीकृतवान्, परन्तु काऽपि कार्यविधि: न कृता।
अस्याः संस्थाद्वारा भाजपानेतॄणां कृते अवाच्यं क्रियते। तस्य प्रतिक्रियारूपेण मुख्यमन्त्री उक्तवान् यत् अन्वेषणं करिष्यते यत् विपक्षस्य नेतु: विरुद्धं केन टिप्पणी कृता। काङ्ग्रेसस्य कस्यचित् दुरुपयोगस्य संस्कृतिः नास्ति। आरटीआई इत्यस्य सत्यतायाः अन्वेषणं भविष्यति। आगामिनि बजटसत्रे विपक्षस्य नेतारं सम्पूर्णा सूचना प्रदत्ता भविष्यति।
