HP Vidhan Sabha Session – शिक्षामंत्री रोहितठाकुरः उक्तवान् यत् ३८०७ शिक्षकपदानां पूरणस्य प्रक्रिया प्रचलति
हिमसंस्कृतवार्ता:- धर्मशाला।
शिक्षामन्त्री रोहितठाकुर: उक्तवान् यत् सर्वकारीयविद्यालयेषु विभिन्नवर्गस्य शिक्षकाणां अभावं दूरीकर्तुं ३८०७ पदानि पूरयितुं प्रक्रिया प्रचलति। विधायकस्य हंसराजस्य प्रश्नस्य लिखितरूपेण उत्तरं दत्त्वा मन्त्री उक्तवान् यत् ७८७ जेबीटी पदेषु, १,७०१ सी एण्ड वी पदेषु, १,२८० प्रशिक्षितस्नातकशिक्षकेषु, ३७ प्रवक्ता (नवीनविद्यालयः) पदेषु च नियुक्तिः प्रचलति। पात्राभ्यर्थिनः अनुशंसाः प्राप्य एतानि पदस्थानानि पूरयिष्यन्ते। शिक्षक- अभावक्षेत्रेषु, दूरस्थेषु/ आदिवासी-क्षेत्रेषु च नूतनानां शिक्षक-नियुक्तीनां स्थापनं भवतु इति सर्वकारः प्रयतते।
चम्बामण्डले ९६ जेबीटी पदानि, १३८ सी एण्ड वी पदानि च पूरयितुं प्रस्तावितानि सन्ति। प्रशिक्षितस्नातकशिक्षकाणां रिक्तपदानां पूरणस्य प्रक्रिया अपि प्रचलति। प्रवक्ता (नवविद्यालयः), मुख्याध्यापकः, प्रधानाचार्यः च इति रिक्तपदानि अपि पदोन्नति-तर्कीकरणद्वारा सर्वकारः पूरयति। विधायिका अनुराधा राणा इत्यस्य प्रश्नस्य लिखित उत्तरे शिक्षामन्त्री उक्तवान् यत् विगतत्रिषु वर्षेषु अक्तूबर ३१ दिनाङ्कपर्यन्तं समग्रशिक्षा अभियानस्य अन्तर्गतं राज्ये जिलास्तरस्य ₹१०१२.०६ कोटिरूप्यकाणां राशिः आबंटिता अस्ति।
प्राथमिक कृषिसहकारीसंस्थानां कम्प्यूटरीकरणं भविष्यति- मुकेश अग्निहोत्री
उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान् यत् राज्ये सहकारीक्षेत्रस्य आधुनिकीकरणाय, सुदृढीकरणाय च केन्द्रसर्वकारेण सहकारमन्त्रालयस्य अन्तर्गतं केन्द्रप्रायोजितानां तिसृणां परियोजनानां अनुमोदनं कृतम् अस्ति। विधायक: सतपालसिंहसत्ती इत्यस्य प्रश्नस्य लिखित उत्तरे उपमुख्यमन्त्री उक्तवान् यत् अस्मिन् राज्यस्य प्राथमिककृषिसहकारीसंस्थानां कम्प्यूटरीकरणं, हिमाचलप्रदेश- राज्य- सहकारी- कृषिग्राम्यविकासबैङ्कस्य कम्प्यूटरीकरणं, सहकारीसङ्घस्य रजिस्ट्रारकार्यालयस्य कम्प्यूटरीकरणं च अन्तर्भवति।
