मुख्यमंत्री सुक्खु: प्रदूषणनियन्त्रणमण्डलस्य क्षेत्रीयप्रयोगशालाभवनस्य उद्घाटनं कृतवान्
हिमसंस्कृतवार्ता: – धर्मशाला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमाचलप्रदेश- राज्यप्रदूषण- नियन्त्रणमण्डलस्य क्षेत्रीय- प्रयोगशालाभवनस्य उद्घाटनं कृतवान्, यस्य निर्माणं काङ्गड़ामण्डलस्य धर्मशालासमीपे दाड़ी इत्यत्र ३.५ कोटिरुप्यकाणां व्ययेन कृतम्। अस्या: प्रयोगशालायाः विस्तारः ९३८.४४ वर्गमीटर अस्ति, यस्मात् २३४.६१ वर्गमीटर् क्षेत्रं प्रयोगशालाभवनाय समर्पितम् अस्ति। तस्य आधारतलं पार्किङ्गार्थं उपयुज्यते। प्रयोगशालायाः कार्यसुलभतायै एतत् बहुतलीयभवनं विद्युत्, जलापूर्ति:, अन्याभि: आधुनिकसुविधाभिः च सुसज्जितम्। प्रयोगशालायां जलस्य अपशिष्टजलस्य च गुणवत्तापरीक्षणस्य, वायुगुणवत्तानिरीक्षणस्य, सूक्ष्मजीवपरीक्षणस्य च पृथक् पृथक् विभागाः सन्ति, येन विभिन्न- पर्यावरणपरीक्षण-निरीक्षणकार्यस्य गुणवत्ताप्रदर्शनं सुनिश्चितं भवति भवने प्रतिरूपसंग्रहकक्षः, रसायन- काच- भण्डारणकक्षः, अभिलेखकक्षः, सभाभवनं, पर्याप्तं कर्मचारिणां निवासस्थानं च सन्ति, येन सुचारुतया कुशलतया च संचालनं सुनिश्चितं भवति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारेण प्रयोगशालायाः निर्माणार्थं पर्याप्तं धनं प्रदत्तम्। एतत् एनएबीएल- मानकानुसारं निर्मितम्। आधुनिकमूलसंरचना, उन्नतविश्लेषणक्षमता, उन्नतसुरक्षाप्रावधानं च कृत्वा नूतनभवनं प्रदूषणनियन्त्रणमण्डलस्य तकनीकीक्षमतां, दक्षतां, सेवास्तरं च अधिकं वर्धयिष्यति।
