संस्कृतभारती हरियाणा अखण्डगीतापारायणमकरोत्
संस्कृतभारती हरियाणा (न्यास:) द्वारा गीताजयन्त्या: उपलक्ष्ये मार्गशीर्षमासस्य मोक्षदायिन्यामेकादश्यां तिथौ सम्पूर्णश्रीमद्भगवद्गीताया: अखण्डपारायणकार्यक्रमः आभासीयरूपेण (ऑनलाईन) आयोजित: प्रान्तगीताशिक्षणप्रमुखः डॉ जयपालशास्त्री कथितवान् यत् कार्यक्रमस्य रूपरेखा निम्नलिखिता आसीत्। स्वस्वगृहे दीपप्रज्वालनम् – दीपमन्त्र:, वैदिकमङ्गलाचरणम् – हरिदेवः शास्त्री महोदय:, सरस्वतीवन्दना- श्रीमती मनीषा ध्येयमन्त्र:- श्रीसोमबीरः सङ्कल्पः गणपतिपूजनम् गीतामाहात्म्यम् च- हरिदेवः शास्त्री महोदय:, तदनन्तरम् एकः साधकः एकस्य अध्यायस्य पारायणम् अकरोत्। भिवानीजनपदे प्रथमोऽध्यायस्य वाचनं डॉ. जयपाल शास्त्री, रोहतकजनपदे द्वितीयोऽध्यायस्य वाचनं श्रीरवीन्द्रकुमारः, हिसारजनपदे तृतीयोऽध्यायस्य वाचनं डॉ. शेलेन्द्रकुमारः जींदजनपदे चतुर्थोऽध्यायस्य वाचनं डॉ नवीनः, कुरुक्षेत्रजनपदे पंचमोऽध्यायस्य वाचनं श्रीभूपेन्द्र:, अंबालाजनपदे षष्ठोऽध्यायस्य वाचनं श्रीनीरजः, पानीपतजनपदे सप्तमोऽध्यायस्य वाचनं श्रीकृष्णदेवः, कैथलजनपदे अष्टमोऽध्यायस्य वाचनं डॉ. विनयगोपालः, महेन्द्रगढ़जनपदे नवमोऽध्यायस्य वाचनं श्रीमती मनीषा, सिरसाजनपदे दशमोऽध्यायस्य वाचनं डॉ. द्रोणप्रसाद: कोइराला, करनालजनपदे एकादशोऽध्यायस्य वाचनं श्रीसञ्जीवकुमारः, रेवाड़ीजनपदे द्वादशोऽध्यायस्य वाचनं श्रीप्रवेशकुमारः, गुरुग्रामजनपदे त्रयोदशोऽध्यायस्य वाचनं स्नेहेलदेशपाण्डेयः, फतेहाबादजनपदे चतुर्दशोऽध्यायस्य वाचनं श्रीसुनील शास्त्री, नूॅंहजनपदे पंचदशोऽध्यायस्य वाचनं डॉ. लिपिका आर्या, सोनीपतजनपदे षोडशोऽध्यायस्य वाचनं डॉ. सञ्जीवः, झज्जरजनपदे सप्तदशोऽध्यायस्य वाचनं डॉ. हेमन्तः, यमुनानगरजनपदे अष्टादशोऽध्यायस्य वाचनं श्रीगिरीश: शास्त्री च वाचनं कृतवन्तः। कार्यक्रमस्य सञ्चालनं डॉ. जयपालशास्त्री प्रान्तगीताशिक्षणप्रमुखः अकरोत्। आरतीं क्षमाप्रार्थनां च आचार्य: हरिदेव: अकरोत्। कार्यक्रमस्यान्ते धन्यवादज्ञापनं प्रान्तमन्त्री प्रमोदाचार्यः कल्याणमन्त्रं च श्रीसुरेन्द्रकुमार: अकरोत्।
कार्यक्रमेऽस्मिन् उत्तरक्षेत्रगीताप्रशिक्षणप्रमुख: डॉ. जोगेन्द्रसिंह: डॉ जितेन्द्रः डॉ रामनिवासः डॉ सुमनरानी हरियाणाप्रान्तस्य सर्वेऽपि दायित्ववन्त: तथा च कार्यकर्तार: अन्ये सामाजिकाश्च उपस्थिता: आसन्।
संस्कृतभारती हरियाणा अखण्डगीतापारायणमकरोत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
