राज्यपालः शिवप्रतापशुक्लः अपि एस.आइ.आर (SIR) इत्यस्मिन् सम्मिलित:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः स्वपत्न्या जानकीशुक्ला इत्यनया सह सोमवासरे उत्तरप्रदेशस्य गोरखपुरं गत्वा मतदातासूचीनां विशेषसघनपुनरीक्षण-अभियानस्य अन्तर्गतं प्रपत्राणि अपूरयत्। आयोजनस्य कालखण्डे सः मतदानकेन्द्रस्तरस्य अधिकारिभिः (बीएलओ) सह मिलित्वा प्रचलति सत्यापनकार्यस्य अवलोकनं कृतवान्। राज्यपालः पारदर्शिता, सटीकता, समावेशी च सुनिश्चित्य निर्वाचनव्यवस्थायाः प्रयत्नस्य प्रशंसाम् अकरोत् । अस्मिन् अवसरे वदन् राज्यपालः शुक्लः अवदत् यत् मतदातार: लोकतन्त्रस्य सशक्ततमाः स्तम्भाः सन्ति, लोकतान्त्रिकप्रक्रियायाः सुदृढीकरणाय च प्रत्येकस्य नागरिकस्य निर्वाचनसूचौ समावेशः अत्यावश्यकः अस्ति।
सः अवदत् यत् मतदानस्य अधिकारः नागरिकेभ्यः राष्ट्रस्य भविष्यस्य निर्माणस्य शक्तिं ददाति, अतः कोऽपि योग्यः व्यक्तिः निर्वाचनसूचिकातः बहिः न त्यक्तव्यः। राज्यपालः सर्वेभ्यः नागरिकेभ्यः विशेषतः युवभ्यः, महिलाभ्यः, प्रथमवारं मतदातृभ्यः च आह्वानं कृतवान् यत् ते अस्य विशेषसत्यापन-अभियानस्य पूर्णं लाभं गृह्णन्तु, तेषां नामानि निर्वाचनसूचौ समाविष्टानि इति सुनिश्चितं कुर्वन्तु।
