चण्डीगढतः रिकांगपियोपर्यन्तं सप्ताहे त्रीणि दिनानि, शिमलातः च प्रतिदिनं हेली-टैक्सी-सेवा: उपलभ्यन्ते
हिमसंस्कृतवार्ता: – शिमला।
चण्डीगढ-शिमला-किन्नौर मध्ये बहुप्रतीक्षिता हेली-टैक्सी-सेवा शीघ्रमेव आरभ्यते। एतासां सेवानां कृते राज्यसर्वकारेण पवनहंसलिमिटेड्, हेरिटेज एविएशन प्राइवेट लिमिटेड इत्येताभ्यां सह सहमति: कृताः सन्ति। पवनहंसः सप्ताहे त्रीणि दिनानि सोमवासरे, गुरुवासरे, शनिवासरे च चण्डीगढ- संजौली- रामपुर- रिकोङ्ग-पियो तथा रिकोङ्ग-पियो- रामपुर- संजौली- चण्डीगढमार्गेषु विमानयानं करिष्यति। हेरिटेज एविएशनः शिमला- रिकोङ्गपियो-शिमलामार्गे सप्ताहे सप्तदिनानि हेली-टैक्सीसेवा चालयिष्यति। उभयोः कम्पन्योः स्वस्वमार्गेषु परीक्षणविमानयानानि सफलतया कृतानि सन्ति। सम्प्रति रिकांगपियो- नगरस्य आईटीबीपी-हेलिपैडस्थानात् हेलीटैक्सीसेवाः प्रचलन्ति; एकवारं सज्जं जातं चेत् शारबो-हेलपोर्ट-इत्यत्र कार्याणि स्थानान्तरितानि भविष्यन्ति। हेलीटैक्सीसेवायाः भाटकदरं, चक्रविमानानाम् आसनक्षमता, आधिकारिक- प्रक्षेपणदिनाङ्का: च आगामिसप्ताहे अन्तिमरूपेण निर्धारिताः भविष्यन्ति। हेली-टैक्सी-सेवायाः आरम्भेण न केवलं शिमला-किन्नौर-मण्डलयो: पर्यटन-क्रियाकलापाः वर्धिताः भविष्यन्ति, अपितु आपत्काले वायु-एम्बुलेन्स-सेवायाः साहाय्येन रोगिणां बृहत्तर-चिकित्सालयेषु परिवहनस्य सुविधा अपि भविष्यति।
पवनहंसः हेरिटेज एविएशन च चण्डीगढ- शिमला-रिकांङ्ग-पियोनगरयोः मध्ये हेलीटैक्सी-सेवाः संचालयिष्यत:। उभयोः कम्पन्योः मार्गाः अन्तिमरूपेण निर्धारिताः सन्ति। भाटकम् अन्तिमरूपेण निर्धारितस्य शीघ्रमेव औपचारिकरूपेण सेवाः प्रारभ्यन्ते।
-विवेक भाटिया, निदेशक:, पर्यटनम् एवं नागरिक- उड्डयनविभाग:
