मुख्यमंत्री सुक्खुः प्रातः भ्रमणकाले धर्मशाला साईप्रापङ्गणंं गत्वा क्रीडकैः सह वार्तालापं कृतवान्, बैडमिण्टनक्रीडा अपि क्रीडितवान्।
हिमसंस्कृतवार्ता:- धर्मशाला।
अद्यत्वे हिमाचलप्रदेशविधानसभायाः शिशिरसत्राय सम्पूर्ण: सर्वकार: धर्मशालायां वर्तते। धर्मशालातः सर्वाणि सर्वकारीयकार्याणि सम्पाद्यन्ते। धर्मशालासत्रस्य अतिरिक्तं मुख्यमन्त्री सुक्खुः अपि प्रातः सायं च जनसहितं मिलित्वा तेषां कल्याणं पृच्छति इति दृश्यते।
तत्रैव मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे प्रातःकाले भ्रमणं कुर्वन् साई-क्रीड़ाप्राङ्गणं प्राप्तवान् आसीत्। तत्र सः अभ्यासं कुर्वद्भि: बालकै: सह संवादं कृतवान्, तेषां क्रीडायाः विषये, भविष्यस्य योजनानां विषये च ज्ञातवान्। मुख्यमन्त्री बालकैः सह बैडमिण्टनक्रीडामपि क्रीडितवान्। ताइक्वाण्डो इत्यादीनां क्रीडकानां क्रीडकाः अपि मुख्यमन्त्रिणा सह छायाचित्रं गृहीतवन्तः।
