धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः
हिमसंस्कृतवार्ताः डॉ.अमनदीप शर्मा। नवम्बरमासस्य २३ दिनांकः श्रीसत्यसाईंबाबा इत्यस्य प्राक्ट्योत्सवरूपेण आविश्वे भक्तजनैः सश्रद्धया आचर्यते। अस्मिन् वर्षे इतोऽपि हर्षेण उत्सवोऽयं मानितः। वस्तुतः वर्षोऽयं भगवतः साईंदेवस्य शताब्दसमारोहत्वेन सर्वत्र मान्यते। गतसप्ताहे आन्ध्रप्रदेशस्य पुट्टापर्थी इति स्थानके यत्र श्रीसत्यसाईंबाबा इत्यस्य दिव्यधामः विराजते तत्र भव्ये एकस्मिन् कार्यक्रमे देशस्य प्रधानमन्त्रिणाऽपि आशीर्वादः ग्रहीतः। श्रीसत्यसाईंदेवस्य शताब्दीसमारोहे भारतस्य विविधेषु प्रान्तेषु विविधाः साप्ताहिकाः कार्यक्रमाः आयोजिताः, तत्रैव हिमाचलप्रदेशेऽपि कार्यक्रमस्य उत्साहः सर्वत्र दृश्यते। रविवासरे २३ दिनांके धर्मशालायाः रामनगरस्थे शिवनगरे श्रीसत्यसाईदेवस्य भव्ये मन्दिरे हवनादिभिः कृत्यैः कीर्तनारार्तिक्यैश्च शताब्दजन्मोत्सवः भक्तैः आचरितः। अस्मिन् अवसरे कार्यक्रमस्य विषये प्रतिपादयन् साईभक्तः मदनशर्मा उक्तवान् यत् अस्मिन् सम्पूर्णे सप्ताहे धर्मशालानगरे शताब्दसमारोहस्य पूर्णः आसीत्, यत्र रथयात्राभिः कीर्तनैः च सम्पूर्णं नगरं गुञ्जायमानमिव शोभायमानं जातम्। मदनशर्मणोक्तं यत् श्रीसत्यसाईंसेवासंगठनं न केवलं धार्मिकोत्सवेषु संलग्नः भवति, अपितु सेवाकार्येषु सर्वदा अग्रे तिष्ठति। धर्मशालायाः चिकित्सालये संगठनेन निःशुल्कभोजनव्यवस्था सञ्चाल्यते, तत्रैव बालविकासस्य गतिविधिष्वपि विशेषावधानं दीयते। ध्यातव्यमस्ति यत् श्रीसत्यसाईंबाबा इदानीं स्थूलरूपेणास्यां धरायां न विद्यते परञ्च तस्य कोटिशः भक्तानां हृदयेषु तस्यानुभूतिः सदैव विद्यमाना अस्ति।
धर्मशालायां भक्तैः सश्रद्धया आचरितः श्रीसत्यसाईंजन्मोत्सवः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
