KKSU – छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले
छन्दालङ्कार-कार्यशालायाः समापनम्
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य संस्कृतभाषासाहित्यविभागेन, नवीदिल्लीनगरस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहाय्येन आयोजिता “छन्द: अलङ्कारश्च च” इति विषये २१ दिवसीयव्यावसायिकप्रशिक्षणकार्यशाला २१ नवम्बर २०२५ दिनाङ्के प्रज्ञाभारतीश्रीभास्करवर्णेकर सभागारे सम्पन्ना।समापनसमारोहस्य आरम्भः दीपप्रज्वलनेन सरस्वतीगीतेन च अभवत् । राष्ट्रसन्ततुकडोजीमहाराज-नागपुर-विश्वविद्यालयस्य स्नातकोत्तरसंस्कृतविभागप्रमुखा प्राध्यापिका शुचिता दलालः मुख्यातिथिः आसीत् । विशिष्टातिथिरूपेण आचार्य: हरेकृष्ण अगस्ती, निदेशक: परमपूज्य गोलवलकर गुरुजी रामटेकपरिसर: एवं वेदविद्यासंकायस्य अधिष्ठाता, तथा भारतीयधर्म, दर्शनम् एवं संस्कृति: संकायस्य अधिष्ठाता आचार्य: प्रोफेसर हरेकृष्ण: अगस्ती उपस्थितौ आस्ताम्। संस्कृत-संस्कृतेतरभाषा-संकायस्य अधिष्ठाता प्राध्यापिका कविता होले अस्य कार्यक्रमस्य अध्यक्षतां कृतवती । संस्कृतभाषासाहित्यविभागप्रमुखः, प्रशिक्षणकार्यशालायाः संयोजकः च प्राध्यापकः परागजोशी मञ्चस्य शोभां कृतवान् ।
अस्याः २१ दिवसीयस्य प्रशिक्षणकार्यशालायाः परिचयः, प्रतिवेदनं च प्रो.पराग जोशी इत्यनेन प्रदत्तम्। छात्राः स्वस्य अनुभवान् प्रकटितवन्त: सर्वसम्मत्या सहमताः यत् एतादृशाः कार्यशालाः अधिकवारं आयोजिताः भवेयुः इति।
प्रो हरेकृष्णागस्तीअवदत् यत् छन्द-आलंकारयोः अध्ययनेन काव्यरचनायाः सज्जता भवति, नित्यं अभ्यासः, चिन्तनं च प्रतिभां पोषयति इति।
छन्दसां व्यवस्थितता, अलङ्कारस्य सौन्दर्यं च काव्यं ऊर्जितं करोति – आचार्य: कलापिनी अगस्ती
आचार्य: कलापिनी अगस्ती अवदत् यत् दार्शनिकग्रन्थानां रचना विविधछन्द-प्रयोगेन भवति, येन जटिलविचाराः छन्दयुक्तश्लोकरूपेण आत्मसातीकरणं सुकरं भवति। छन्दस: व्यवस्थितस्वभावः, अलङ्कारस्य सौन्दर्यं च काव्यं जीवन्तं करोति ।
मुख्यातिथिः प्रो. शुचितादलालः वैदिकं लौकिकछन्दसां स्पष्टीकरणं कुर्वता अलंकारविषये अधिकसंशोधनस्य आवश्यकता प्रकटिता। सा आयोजकानाम् अभिनन्दनं कृतवती यत् ते अतीव उपयोगी कार्यशालायाः आयोजनं कृतवन्तः।
अध्यक्षीयसम्बोधने प्रो.कविता होले इत्यनया उक्तं यत् छन्दस:, अलङ्कारस्य च भावः, लयः, सौन्दर्यं, अभिव्यक्तिः च चत्वारि प्रमुखतत्त्वानि सन्ति तेषां उपयोगं ज्ञातुं एषा कार्यशाला आयोजिता आसीत् । छन्दस:, अलङ्कारस्य च अध्ययनेन भाषाशास्त्रीयदक्षता वर्धते, काव्यदृष्टिः विकसिता भवति, छात्राः स्वतन्त्रतया काव्यरचनायां सशक्ताः भवन्ति अस्माकं छात्राः संस्कृत-मराठी-हिन्दी-भाषायां काव्य-रचनां कुर्वन्ति, तेन अस्यां कार्यशालायां ज्ञातानां सिद्धान्तानां काव्य-रूपेण प्रस्तुत्य तस्य प्रयोगस्य प्रदर्शनं कृतवन्तः ।
अस्मिन् अवसरे छात्राणां कृते प्रमाणपत्राणि वितरितानि। अस्याः प्रशिक्षणकार्यशालायाः आयोजनं प्रो. पराग जोशी एवं डॉ. राजेन्द्रजैनस्य प्रयासेन एवं मार्गदर्शनेन च समभवत् । विश्वविद्यालयस्य जनसनपर्काधिकारी अकथयत् यत् कार्यक्रमस्य संचालनं प्रो राधा देशकर: इत्यनया कृतम्, धन्यवादमतं च डॉ. राकेश रोशनेन दत्तम्। शान्तिमन्त्रेण कार्यक्रमस्य समापनम् अभवत्।
