बहिष्कृतायाः बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत् ।
हिमसंस्कृतवार्ता: – संयुक्तराष्ट्रसङ्घस्य महासचिवः एन्टोनियो गुटेरसः बाङ्ग्लादेशस्य बहिष्कृतप्रधानमन्त्रिणः शेख हसीना इत्यस्याः मृत्युदंडस्य विरोधम् अकरोत्। संयुक्तराष्ट्रसङ्घस्य प्रमुखस्य प्रवक्ता स्टीफन् दुजारिक् इत्येषः अवदत् यत्, संयुक्तराष्ट्रसङ्घः सर्वविध-परिस्थितिषु मृत्युदण्डप्रयोगं विरुध्य वर्तते । अष्टसप्तति-वर्षीयराजनेत्रीं विरुध्य तस्याः अनुपस्थितौ ढाका-नगरे देशस्य अन्ताराष्ट्रिय-अपराध-न्यायाधिकरणेन गतवर्षे छात्र नेतृत्वस्य विरोध-प्रदर्शनावसरे कथित-अपराधाणां विषये विचारितः आसीत्। सा सम्प्रति निर्वासने निवसन्ती अस्ति। प्रवक्त्रा संयुक्तराष्ट्रसङ्घस्य मानव अधिकार-उच्चायुक्तस्य वोल्कर टक् इत्यस्य वक्तव्यम् उद्धृत्य उक्तं यत्, केवलं बाङ्ग्लादेशस्य न्यायाधीशेन निर्मितेन स्थानीय न्यायालयेन मृत्युदण्डः दत्तः, यस्य नाम अन्ताराष्ट्रिय-अपराध-न्यायाधिकरणमिति आसीत्, येन सा मानवतां विरुध्य अपराधेषु दण्डिता अभवत् ।एम्नेस्टी इण्टरनेशनल इति संस्थया बांग्लादेशस्य प्राक्तन गृहमंत्रिणा सह शेख हसीनां विरुध्य गतवर्षस्य छात्र-नेतृत्वस्य विरोधेन सह सम्बद्धानां मानवताविरोधी-अपराधानधिकृत्य तयोरनुपस्थितौ मृत्युदण्डेन दण्डननिर्णयस्य निन्दा कृता। एम्नेस्टी इण्टरनेशनल इत्यस्य महासचिवः अग्नेस कालमाई इत्येषः एकस्मिन् वक्तव्ये उक्तवान् यत् अयं निर्णयः न्यायस्य विफलतायाः प्रतिनिधित्वं करोति ।
बहिष्कृतायाः बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
