Nasha Mukat Bharat Abhiyan – मादकद्रव्यव्यापारिभ्य: आजीवनकारावासः १० लक्षरुप्यकाणां दण्डः च – स्वास्थ्यमंत्री डॉ. धनीरामशाण्डिल:
हिमसंस्कृतवार्ता:- शिमला।
नशामुक्तभारत- अभियानस्य पञ्चवर्षाणां समाप्तेः अवसरे सचिवालये राज्यस्तरीयः कार्यक्रमः आयोजितः, यस्य अध्यक्षता स्वास्थ्यमन्त्री डॉ. धनीरामशाण्डिल: अकरोत्। अस्मिन् अवसरे डॉ. शाण्डिलः जनेभ्य: आग्रहं कृतवान् यत् ते मादकद्रव्यस्य दुरुपयोगस्य दुष्प्रभावेषु जागरूकाः भवेयुः, तस्य विरुद्धं सामूहिकसक्रियभागित्वं सुनिश्चितं कुर्वन्तु, मादकद्रव्यस्य दुरुपयोगस्य उन्मूलनार्थं च एकीभवन्तु। हिमाचलं नशामुक्तं कर्तुम् उद्दिश्य उपस्थितै: युवभि: सहितं सर्वेषां कृते मादकद्रव्यनिवारणप्रतिज्ञां अपि प्रदत्तवान्। सः अवदत् यत् राज्यसर्वकारेण हिमाचलप्रदेशस्य संगठित-अपराधस्य (निवारण-नियन्त्रणं) विधेयकं, २०२५ पारितम् अस्ति, यस्मिन् मृत्युदण्डः, आजीवनकारावासः, १० लक्षरुप्यकाणां दण्डः च इति प्रावधानं कृतम् अस्ति। मादकद्रव्यव्यापारिणां कृते अवैधरूपेण प्राप्तानां सम्पत्तिनाम् अधिग्रहणस्यापि प्रावधानं वर्तते। हिमाचलप्रदेशस्य मादकद्रव्यनियंत्रितपदार्थानाम् (निवारणं, व्यसननिवृत्तिः पुनर्वासः च) विधेयकः, २०२५, पारितः, अवैधव्यापारे सम्बद्धानां तस्कराणां कृते कठोरकारावासस्य, आर्थिकदण्डस्य च प्रावधानं करोति, व्यसननिवृत्तिः, पुनर्वासः, निवारकशिक्षा, आजीविकासमर्थनं च वित्तपोषणार्थं राज्यनिधिं स्थापयति। पंजाबस्य अमृतसरनगरस्य गुरुनानकदेव- विश्वविद्यालये आयोजिते राष्ट्रियस्तरस्य “मादकद्रव्यमुक्तभारतम्” इति अभियाने अपि मन्त्री शाण्डिलः आनलाईनरूपेण भागं गृहीतवान्। सः छात्रान् स्वगृहेषु, परितः, स्वमित्रेषु च मादकद्रव्याणां दूरं स्थातुं सन्देशं प्रसारयितुं, स्वकर्मणां माध्यमेन अन्येषां कृते प्रेरणारूपेण भवितुं च आग्रहं कृतवान्। निदेशक: ईसोमसा इति सुमितखिमटा महिला एवं बाल विकासनिदेशक: डॉ. पंकजललित:, एवं अतिरिक्तपुलिसाधीक्षक:, मादकपदार्थविरोधी- कार्यदलं रमेश शर्मा उपस्थिता अभवन्।
विद्यालयस्य महाविद्यालयस्य च छात्राः प्रस्तुतिः दत्तवन्तः
कार्यक्रमस्य कालखण्डे संजौलीनगरस्य शासकीय- वरिष्ठ- माध्यमिक- विद्यालयस्य दशमश्रेणी- छात्रा आयशा मादकद्रव्येभ्य: दूरं स्थातुं, तै: सह समयं व्यतीत्य वृद्धानां अनुभवेभ्यः बहुमूल्यं पाठं ज्ञातुं च सन्देशं प्रसारितवती कोटशेरा महाविद्यालयस्य छात्राः मादकद्रव्यव्यसनस्य समस्यायाः विषये लघुनाटकं प्रस्तुतवन्तः यत् समाजस्य कृते गम्भीरं संकटं जातम् अस्ति।
