निर्वाचनायोगस्य अधिसूचनाया: विधिसमीक्षां करोति सर्वकार: – मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता:- काङ्गड़ा।
राज्यसर्वकारः पंचायतानां नगरीयनिकायानां च सीमापरिवर्तनप्रतिबन्धस्य विषये राज्यनिर्वाचन- आयोगेन प्रसारिताया: अधिसूचनायाः विधिसमीक्षां कुर्वन् अस्ति। अस्मिन् विषये मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् आपदाप्रभावितानां जनानां कृते आश्रयप्रदानं सर्वकारस्य प्राथमिकता अस्ति। पालमपुरे पत्रकारैः सह वदन् मुख्यमन्त्री अवदत् यत् राज्ये आपदाप्रबन्धनविधानं प्रचलति, राज्यसर्वकारः च आपदाप्रभावितजनेभ्य: आश्रयप्रदानाय प्राथमिकताम् ददाति। सम्प्रति अवरुद्धेषु क्षेत्रेषु मार्गाणाम् अन्यमूलसंरचनानां च पुनर्स्थापनार्थं सर्वकारः प्रयत्नपूर्वकं कार्यं कुर्वन् अस्ति। सः अवदत् यत् एतादृशेषु क्षेत्रेषु जनानां मतदानस्य अधिकारात् वञ्चनं कर्तुं न शक्यते। सः अपि अवदत् यत् प्रथमवारं बहुषु क्षेत्रेषु सेबफलानि अपि स्वगन्तव्यस्थानं प्राप्तुम् असमर्था अभवन्। सः अवदत् यत् निर्वाचनं भविष्यति, परन्तु आपदाप्रभावितानां जनानां कृते कार्यं प्राथमिकता भविष्यति। पंचायतानां नगरीयसंस्थानां च सीम्नि परिवर्तनं निषिद्धं कृत्वा राज्य- निर्वाचनायोगस्य अधिसूचनायाः वैधानिकी समीक्षा क्रियते, तथा च सर्वकारः विधिरूपरेखायाः अन्तः समुचितकार्याणि करिष्यति। सः अवदत् यत् मन्त्रिमण्डलेन केषाञ्चन पंचायतानां परिसीमनं पुनर्गठनं च कर्तुं निर्णयः कृतः। अतः सः पक्षः अपि विचार्यमाणः अस्ति।
विधानसभायां रचनात्मकरूपेण विषयान् उत्थापयेत् भाजपा
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् धर्मशालायां प्रस्तावितं विधानसभासत्रं विधानसभायाः इतिहासे सर्वाधिकं दीर्घं भविष्यति, अतः केवलं वाक्पटुतायां सीमितं न अपितु रचनात्मकतया सज्जतया च विषयाः उत्थापिताः भवेयुः। सः भाजपां राजनैतिकवाक्पटुताया: दूरं गत्वा विधानसभायाः अन्तः जनहितविषयेषु कार्यं कर्तुं आग्रहं कृतवान्। सः अवदत् यत् अस्माकं विधायकाः अपि राजनैतिकवाक्पटुतायां पृष्ठे न स्थास्ययन्ति।
