२०२८ तमवर्षपर्यन्तं इसरो चन्द्रयान-४ इत्यस्य प्रक्षेपणं भविष्यति
हिमसंस्कृतवार्ताः। भारतं अन्तरिक्षे नूतनानि मापदण्डानि स्थापयति। अस्याः सफलतायाः पृष्ठे सर्वे इस्रो वैज्ञानिकाः सन्ति । इस्रो इदानीं पुनः एकवारं विश्वे स्वस्य पराक्रमं प्रदर्शयितुं सज्जः अस्ति। अस्मिन् वित्तवर्षे सप्तप्रक्षेपणानि भविष्यन्ति। भारतस्य प्रथमं मानवीयं अन्तरिक्षयानं २०२७ तमवर्षपर्यन्तं प्रक्षेपणस्य योजना अपि प्रचलति।इसरो अध्यक्षः वी. नारायणनः अपि एकस्मिन् साक्षात्कारे उक्तवान् यत् इसरो इत्यस्य अन्तरिक्षयानस्य उत्पादनक्षमता त्रिगुणा भविष्यति इसरो-अध्यक्षः वी. नारायणन् इत्यनेन उक्तं यत् इस्रो विज्ञान-प्रौद्योगिक्याः, उद्योग-क्षमतायाः च तीव्रविस्तारस्य कालखण्डे अस्ति । इस्रो सप्तप्रक्षेपणानां योजनां कुर्वन् अस्ति, यत्र वाणिज्यिकसञ्चार उपग्रहः, अनेकानि पीएसएलवी, जीएसएलवी च अभियानानि सन्ति । एकः महत्त्वपूर्णः आकर्षणः प्रथमः पीएसएलवी भविष्यति यः पूर्णतया भारतीयः भविष्यति। इस्रो-प्रमुखेन इदमपि उक्तं यत् चन्द्रात् प्रतिरूपकाणि ग्रहीतुं जटिलमभियानम् चन्द्रयान-४ इति सर्वकारेण अनुमोदितम्। अपि च इसरो इत्यस्य लक्ष्यं २०२८ तमे वर्षे चन्द्रयान-४ इत्यस्य प्रक्षेपणं करणीयम् अस्ति ।तदतिरिक्तं जापान एयरोस्पेस् अन्वेषण एजेन्सी (JAXA) इत्यनेन सह सहकारेण चन्द्रध्रुवीय अन्वेषणकार्यक्रमे कार्यं प्रचलति
२०२८ तमवर्षपर्यन्तं इसरो चन्द्रयान-४ इत्यस्य प्रक्षेपणं भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
