एकस्य IAS-अधिकारिणः बालकानां तुलना दरिद्रस्य कृषकस्य बालकैः सह कर्तुं न शक्यते-भारतस्य मुख्यन्यायाधीशः
भारतस्य मुख्यन्यायाधीशः बी.आर. गवई रविवासरे अनुसूचितजातीयानां आरक्षणेषु समर्थतायुक्तं स्तरं न समावेशयितुं स्वस्य समर्थनं पुनः उक्तवान्। ‘७५ वर्षेषु भारतं जीवितं भारतीयसंविधानं च’ इति शीर्षकेण आयोजनं सम्बोधयन् मुख्यन्यायाधीशः अवदत् यत् आरक्षणस्य विषये एकस्य IAS-अधिकारिणः बालकानां तुलना दरिद्रस्य कृषकस्य बालकैः सह कर्तुं न शक्यते। न्यायमूर्तिः गवैः अवदत् यत्, “मया मतं गृहीतम् यत् इन्द्रा साहनी निर्णये यथा दृश्यते तथा समर्थतायुक्तस्तरस्य अवधारणा प्रवर्तनीया। अन्यपिछड़ावर्गेषु यत् प्रवर्तते तत् अनुसूचितजातिषु अपि प्रवर्तनीयम्, यद्यपि अस्मिन् विषये मम निर्णयस्य बहुधा आलोचना कृता अस्ति।
एकस्य IAS-अधिकारिणः बालकानां तुलना दरिद्रस्य कृषकस्य बालकैः सह कर्तुं न शक्यते-भारतस्य मुख्यन्यायाधीशः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
