*वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः*
वंशिपुरः, पश्चिमबङ्गः हिमसंस्कृतवार्ता
बङ्गप्रदेशस्य वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः। अस्मिन् अवसरे श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य तथा सिद्धेश्वरी-गुरुकूलस्य च संयुक्ततत्त्वावधानेन विश्वकल्याणयज्ञोऽयं सम्पन्नभवत्। प्रायः दशवर्षं यावत् इयं यज्ञपरम्परा प्रचलन्ती वर्तते। तत्र विशिष्टमस्ति सिद्धेश्वरीकालीमातृमन्दिरम्, सिद्धेश्वरशिवमन्दिरं च। तत्रत्यैः ब्राह्मणैः अरणिघर्षणेन गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणाग्निः, सव्याग्निः, आवसथ्याग्निश्च प्रज्वालितः। श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य प्राचार्यैः मान्यैः डॉ. सोमेश-कुमार-मिश्रमहाभागैः पुरोडाशप्रदानेन पूर्णाहुतिप्रदानेन च यज्ञस्यास्य निर्विघ्नसमाप्तिः विहिता। तत्र उपस्थिताः आसन् श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य उपप्राचार्याः डॉ. राजेश्वरद्विवेदिमहाभागाः, बौद्धदर्शनविभागस्य विभागाध्यक्षाः डॉ. शान्तनुचक्रवर्तीमहोदयाः। अस्य नगरस्य ग्रामीणाः एकीभूय प्रसादपरिवेशनार्थं कार्यं कृतवन्तः। अस्य अनुष्ठानस्यान्तिमे सन्धिपूजाख्यस्य ग्रन्थस्य उद्घाटनमपि जातम्। कार्यक्रमेऽस्मिन् सप्तसहस्राधिकाः जनाः आगतवन्तः।लितलायां विश्वकल्याणयज्ञः सुसम्पन्नः*
