“आयुर्वेदिकशिक्षायाः नूतनारम्भः — ‘आयुःप्रवेशिका’ कार्यक्रमस्य सफलं आयोजनम्”
प्रेरणा चैरिटेबल् ट्रस्ट–संवर्धिते जयजलाराम आयुर्वेदिकमेडिकल्कॉलेजे, शिवपुरी–गोधरा* इत्यस्मिन् नवशैक्षणिकवर्षस्य २०२५–२६ तमेऽवसरे प्रथमवर्षीय–BAMS–विद्यार्थिनां निमित्तं *“आयुःप्रवेशिका – Transitional Curriculum”* इत्यस्य भव्यः कार्यक्रमः आयोजितः आसीत्।
कार्यक्रमस्य आरम्भः दीपप्रज्वलनं तथा धन्वन्तरिपूजन–स्तुत्या* अभवत्। नूतनविद्यार्थिनां हार्दिकं स्वागतं कृतम्।
प्रधानाचार्यः डॉ. सीबा प्रसाद् शर्मा स्वागतोद्बोधने अवदत् —
“आयुर्वेदः केवलं औषधिमात्रं नास्ति, अपि तु जीवनस्य एकः मार्गः अस्ति।”
वैद्य–सुपरिण्टेण्डण्ट् डॉ. कोमल जानी अपि नूतनविद्यार्थिभ्यः आयुर्वेदिकशिक्षायाः आधुनिकदृष्टिं प्रस्तुतवती।
कार्यक्रमे प्रधानातिथयौ डॉ. विजय पटेल (अध्यक्षः, प्रेरणा चैरिटेबल ट्रस्ट्) तथा श्रीमान् पी. एम्. पटेल (ट्रस्टी, प्रेरणा चैरिटेबल ट्रस्ट) उपस्थितौ आस्ताम्। ताभ्याम् संस्थायाः शैक्षणिकप्रतिबद्धता प्रशस्य, विद्यार्थिभ्यः उपदेशः दत्तः यत् —
“आयुर्वेदस्य परम्परागतम् ज्ञानं आधुनिकविज्ञानसहितं संयोजयितुं प्रयत्नः करणीयः।”
आभारविधिः डॉ. रुक्मणी पटेल द्वारा कृता
कार्यक्रमस्य संचालनं डॉ. अञ्जलि शर्मा तथा डॉ. चिराग पुरोहितः सुशोभनरूपेण निर्वहताम्।
संपूर्णस्य आयोजनस्य सफलतायां *समस्तशिक्षक–कर्मचारी–विद्यार्थिनः* सक्रियं योगदानम् अददुः।
— ✨ *जयजलाराम आयुर्वेदिकमेडिकल महाविद्यालय:, शिवपुरी–गोधरा* ✨
