HPCM Disaster Relief – हिमाचलप्रदेशे आपदाप्रभावितेभ्य: अधुना ₹८ लक्षरुप्यकाणि, ४,९१४ जनेभ्य: ₹८१ कोटिरूप्यकाणि दत्तानि
हिमसंस्कृतवार्ता:- मण्डी।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे मण्डीनगरस्य ऐतिहासिकपड्डलभूमौ आयोजिते आपदाश्रयवितरणसमारोहे राज्यस्य जनानां कृते अनेका: बृहत्घोषणा: अकरोत्। सः घोषितवान् यत् आपदाग्रस्तपरिवाराः अधुना सप्तलक्षरुप्यकाणां स्थाने ८ लक्षरुप्यकाणि प्रदास्यन्ते। सः वस्त्राणि, पात्राणा, शय्या: आदीनां च क्रयणार्थम् अतिरिक्तम् एकलक्षरुप्यकाणि अपि घोषितवान्। मण्डीनगरे ४,९१४ प्रभावितजनानाम् कृते ८१.२८ कोटिरूप्यकाणां आश्रयनिधिः वितरिता। मञ्चे २१ जनानां कृते अन्येषां वित्तकोषसंख्यासु च ऑनलाईनरूपेण आऋयनिधिः स्थानान्तरिता।
कार्यक्रमे भाजपाविधायकानामपि उपस्थिति: स्यात्
मुख्यमन्त्री सुक्खुः विपक्षं लक्ष्यं कृत्वा अवदत् यत् अस्मिन् कार्यक्रमे सर्वे भाजपाविधायकाः विपक्षनेता च जयरामठाकुरः उपस्थिता: स्यु: , यतः आपद: कस्यापि दलस्य न भवन्ति। “आपदि राजनीतिः नास्ति, न च आमन्त्रणस्य आवश्यकता वर्तते।” सः विपक्षस्य नेतारं भाजपाविधायकान् च राजनैतिकमतभेदं त्यक्त्वा प्रभावितपरिवारैः सह स्थातुं आग्रहं कृतवान्।
भाजपाशासनकाले विपक्षस्य विधायकानां वक्तुम् अनुमतिः नासीत्
मुख्यमन्त्री उक्तवान् यत् भाजपाशासने विपक्षस्य विधायकानां मञ्चे वक्तुम् अपि अनुमतिः नासीत्, यदा तु वर्तमानसर्वकारः प्रत्येकस्य दलस्य प्रतिनिधिनां सम्मानं करोति। उदाहरणम् उद्धृत्य सः अवदत् यत् अद्य भाजपाविधायकः अनिलशर्मा मञ्चे अस्ति, यत् सत्यलोकतन्त्रस्य चिह्नम् अस्ति।
वयं पीडितानां दुःखम् अवगच्छामः
सुक्खुः अवदत् यत् तस्य सर्वकारेण प्रथमवारं फलोद्यानानां कृते १०० कोटिरूप्यकाणां सेबफलानि क्रीताणि, पशुपालकानां संबलार्थं च दुग्धस्य मूल्यं वर्धितम्। सः अवदत् यत् वयं व्यवस्थापरिवर्तनस्य सर्वकारः, यः पीडितानां दुःखं अवगच्छति। अस्माकं मन्त्रिणः आपदाकाले जेसीबीयन्त्रेषु उपविश्य आश्रयकार्यं कृतवन्तः।
हिमकेयरयोजनायां पृष्ठद्वाराः पिहिता: अभवन्
चिकित्सालयेषु नूतनानि यन्त्राणि आनयन्ते, हिमकेयरयोजनायां “पृष्ठद्वाराः” पिहिता: च सन्ति। स आह- “अहं सत्तासुखाय अपि तु व्यवस्थापरिपर्तनाय राजनीतौ अस्मि” इति। “अहं परिवर्तनम् आनेतुं राजनीतिं प्रविष्टवान्। २०२७ तमे वर्षे मया सह तिष्ठतु। अहं वर्षद्वयेन हिमाचलं स्वनिर्भरं करिष्यामि, २०३२ तमे वर्षे च देशस्य समृद्धतमं राज्यं करिष्यामि।”
