CM Sukhu – मुख्यमंत्री पनारसा-महाविद्यालयस् भवनस्य उद्घाटनं कृतवान्
महाविद्यालये अग्रिमे सत्रे बी. वॉक- बीसीए कक्षाः आरब्धा: भविष्यन्ति
हिमसंस्कृतवार्ता:- मण्डी।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे मण्डीजनपदस्य पनारसायां १३.१४ रुप्यकाणां व्ययेन निर्मितस्य शासकीयमहाविद्यालयस्य भवनस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारस्य सर्वोच्चप्राथमिकतासु शिक्षा अन्यतमा अस्ति। सः अवदत् यत् शिक्षायां व्यवस्थितपरिवर्तनद्वारा गुणवत्तापूर्णशिक्षायाः प्रवर्धनार्थं सर्वकारः समन्वितप्रयत्नान् करोति। सः अपि अवदत् यत् नूतनानां संस्थानां उद्घाटनस्य उद्देश्यं केवलं भवननिर्माणं न भवेत्, अपितु छात्राणां कृते गुणवत्तापूर्णशिक्षायाः उपलब्धिः सुनिश्चिता भवेत्। वर्तमानराज्यसर्वकारः छात्राणां कृते पर्याप्तकर्मचारिणां व्यवस्थापनं सुनिश्चितं कुर्वन् अस्ति येन ते आत्मविश्वासं प्रवर्तयितुं शक्नुवन्ति, भविष्ये आह्वानानां सम्मुखीकरणं कर्तुं च शक्नुवन्ति। सः अवदत् यत् विगतत्रिषु वर्षेषु गुणवत्तापूर्णशिक्षाप्रदानार्थं सर्वकारेण अनेकानि परिष्कारात्मकानि पदानि स्वीकृतानि, येषां सकारात्मकं परिणामं प्राप्तम्। प्रथमश्रेणीतः १२ कक्षापर्यन्तं गुणवत्तापूर्णशिक्षाप्रदानार्थं पृथक् विद्यालयशिक्षानिदेशालयस्य स्थापना कृता। वर्तमानराज्यसर्वकारेण कृतानां परिष्कार- परिहाराणां कारणात् शिक्षाक्षेत्रे हिमाचलप्रदेशः २१ तः ५ स्थानं प्राप्तवान् अस्ति। सः अवदत् यत् प्रथमश्रेण्याः आरभ्य आङ्ग्लमाध्यमस्य प्रवर्तनं कृतम् अस्ति। १०० सीबीएसई विद्यालयाः निर्मिताः सन्ति, येषु ४० विद्यालयाः पूर्वमेव सम्बद्धाः सन्ति। अस्योद्देश्यं ग्राम्यक्षेत्रेषु बालकानां कृते गुणवत्तापूर्णशिक्षायाः उपलब्धिः सुनिश्चिता भवति।
मुख्यमन्त्री उक्तवान् यत् सर्वकारेण महाविद्यालयस्तरस्य पृथक् निदेशालयः अपि निर्मितः अस्ति, सम्प्रति उच्चशिक्षायां च संरचनात्मकपरिवर्तनानि कार्यान्वितं भवति। सः अवदत् यत् कदाचित्, परिष्कारार्थं कठिननिर्णयाः कर्तव्याः भवन्ति, ये प्रथमे कठिनाः प्रतीयन्ते, परन्तु एते निर्णयाः जनहिताय एव सन्ति। सः अपि अवदत् यत् बालकानां भविष्याय सज्जीकरणाय सूचनाप्रौद्योगिकी-आधारितशिक्षा प्रदत्ता अस्ति।
