Cricket Champion Renuka Thakur – मातुः परिश्रमस्य मूल्यं ज्ञात्वा विश्वविजेता अभवत् रेणुकाठाकुर हाटकोटीमन्दिरं प्रणम्य: गृहं प्राप्ता
हिमसंस्कृतवार्ता:- शिमला। आईसीसी महिलाक्रिकेटविश्वचषकं जित्वा भारतीयतीव्रकन्दुकक्रीडिका रेणुकाठाकुर रविवासरे स्वस्य गृहनगरं रोहरुं प्राप्ता तत्र तस्या: हार्दिकस्वागतं जातम्। रेणुका अवदत् यत् सा स्वमातुः कृतस्य परिश्रमस्य मूल्यं ज्ञातवती। तस्याः सफलतायां तस्याः माता सुनीताठाकुर, पितृव्य: भूपिन्दरठाकुरः च महत् योगदानं दत्तवन्तौ। सा अवदत् यत् परिश्रमः कदापि विफलः न भवति । विश्वचषकविजयेन बालिकानां क्रिकेट-क्रीडायां रुचिः अधिका भविष्यति। आगामिविश्वचषकस्य विजयाय प्रयत्नाः आरब्धाः एव सन्ति। रेणुकाठाकुर रविवासरे रोहरुनगरस्य पारसाग्रामे स्वगृहं प्राप्तवती। तत: पूर्वं सा हाटकोटीमन्दिरं प्रणामम् अकरोत्। रेणुका अवदत् यत् स्पर्धायाः समये नित्यं अवसाद: भवति। एतस्य अवसादस्य निवारणाय वासगृहे प्रसन्नवातावरणं निर्मीयते। अतः सा मयूरस्य चित्रणं कृत्वा अवसादनिवारणं सकारात्मकशक्तिं प्रसारयितुं च प्रयतते स्म। सा अवदत् यत् एतत् आधारस्तम्भं प्राप्तुं पारिवारिकसमर्थनेन सह दिवारात्रौ परिश्रमस्य आवश्यकता भवति।
यदि सर्वकारः मञ्चं प्रदास्यति तर्हि प्रत्येकः युवा एतत् साधयितुं शक्नोति
रेणुका उक्तवती यत् विश्वचषकविजयानन्तरं हिमाचलसर्वकारः प्रथमतया तस्याः कृते पुरस्कारधनस्य घोषणां कृतवान्। ततः सा दलस्य सर्वेभ्यः क्रीडकेभ्यः अभिनन्दनानि प्राप्तवती। प्रधानमन्त्रिणा सह मिलित्वा सा गर्वम् अनुभवति स्म। रेणुका उक्तवती यत् यदि सर्वकारः समये प्रतिभां स्वीकृत्य मञ्चं प्रददाति तर्हि प्रत्येकः युवा एतत् आधारस्तम्भं प्राप्तुं शक्नोति।
