नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति
हिमसंस्कृतवार्ताः। हिमाचलप्रदेशे नवयुवकेषु वृत्तिहीनता विशालासमस्या अस्ति, युवकाः इदानीं वृत्यर्थं सर्वकारस्य मुखं पश्यन्ति। तेषाम् अध्ययनमपि वृत्यर्थं सहयोगी न अस्ति, तत्रैव सर्वकारस्य वनमित्र, पशुमित्र, रोगीमित्र सदृशाः वृत्तयः अपि आधुनिके युगे न पर्याप्ताः, तत्र नवयुवकानां जीवनं शोषणमेव प्रतीयते, यतोहि प्रतिमासं पञ्च-षड्सहस्ररुप्यकाणां वृत्तिः महार्घतायाः काले न पर्याप्ता। अस्मिन् काले एवं जसवां विधानसभाक्षेत्रे समाजसेविनः सञ्जनपाराशरस्य कार्याणि श्लाघनीयाः सन्ति। सञ्जयपाराशरः व्यापारिकजलपोतानां व्यवसाये अनुभवी व्यवसायी वर्तते। तेन विगतेषु पञ्चषड्वर्षेषु सहस्राणां हिमाचलीयानां नवयुवकानां कृते व्यापारिकजलपोतव्यवसाये वृत्तिः कारिता, यत्र नवयुवकाः प्रतिमासं लक्षात्मकं धनं प्राप्नुवन्ति, स्वप्नान् पूरयन्ति च, अस्मिन् एव क्रमे इदानीं तेन जसवां विधानसभायाः विविधेषु क्षेत्रेषु नवयुवकानां कृते धावनप्रतियोगितानां माध्यमेन, क्रीडाप्रतियोगितानां माध्यमेन शैक्षणिकव्यवसायात्मिकानि कौशलानि सम्वर्धयन्ते। एतासु प्रतियोगितासु लक्षरुप्यकाणां पारितोषिकानि नवयुवकेभ्यः प्रदास्यन्ते, तत्रैव वृत्त्यार्थम् नवयुवकानां सहयोगः क्रियते। सञ्जयपाराशरस्य प्रयासैः इदानीं सहस्राणां युवकानां जीवनं सफलं जातम्, सः तेषां कृते गरीबों का मसीहा इति उच्यते। प्रतियोगितानां क्रमे २८ नवम्बरदिनाङ्के जसवां प्रागपुरविधानसभायां मैराथनधावनप्रतियोगितायाः आयोजनमपि अस्मिन्नेव क्रमे आयोज्यते, यत्र शताधिकाः नवयुवकाः भागं ग्रहीष्यन्ति। सञ्जयपाराशरस्य कार्यालीयसदस्येन रविन्द्रशर्मा कार्यक्रमस्य विषये सूचयन्नोक्तं यत् एतादृशाः बहवः कार्यक्रमाः सञ्जयपाराशरद्वारा चिन्तिताः सन्ति, येन नवयुवकानां कृते सशक्तीकरणं भविष्यति।
नवयुवकानां सशक्तीकरणे सञ्जयपाराशरस्य प्रयासाः सतत् रूपेण वर्धमानाः सन्ति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
