इङ्ग्लैण्ड्देशस्य एक: दम्पती १९२० एवं १९२८ तमवर्षयो: च जन्म प्राप्य स्वजनानाम् जन्मप्रमाणपत्रं शिमलानगरनिगमात् प्राप्तवान्
हिमसंस्कृतवार्ता: – डॉ पद्मनाभ:, शिमला।
आङ्ग्लशासनकाले कदाचित् ग्रीष्मकालीनराजधानी शिमला अनेकाभि: ऐतिहासिकनिधिभि: पूरिता अस्ति। शिमलानगरनिगमस्य अद्यापि ब्रिटिशयुगस्य शतशः वर्षाणां अभिलेखाः सन्ति । एतान् अभिलेखान् प्राप्तुं इङ्ग्लैण्ड्देशस्य जनाः नगरनिगमस्य भ्रमणं निरन्तरं कुर्वन्ति । शुक्रवासरे इङ्ग्लैण्ड्देशस्य हर्टफोर्डशायर कांटीत: समागत: एक: दम्पत्ति शिमलानगरनिगमस्य स्वास्थ्यशाखातः स्वपरिचितानाम् जन्मप्रमाणपत्रं प्राप्तवान्।
समाचारानुसारं इङ्ग्लैण्ड्-देशस्य निवासिनः जार्ज लुक:, जार्ज मैथ्यू इंग्राम लुक-इत्येतौ शिमला-नगरं भ्रमितुम् आगतौ। तेषां निकटपरिचिताः शिमलायां जातः इति ज्ञातवन्तः । अतः ते नगरनिगमस्य स्वास्थ्यशाखां गत्वा जन्मप्रमाणपत्रार्थं आवेदनं कृतवन्तः।
जार्ज लुक् इत्यनेन उक्तं यत् तस्य परिचितस्य इयान कॉलिन, स्टुअर्ट नारमंड इत्यस्य जन्म शिमला-नगरे १९२८ तमे वर्षे फेब्रुवरी-मासस्य १८ दिनाङ्के अभवत् । जार्ज मेथ्यू इन्ग्राम-लॉक् इत्यनेन उक्तं यत् तस्य परिचितस्य मैरी एवलिन् इत्यस्याः जन्म १९२० तमे वर्षे मे-मासस्य ६ दिनाङ्के अभवत् । नगरनिगमस्य स्वास्थ्यशाखा उभयोः जन्मप्रमाणपत्रं निर्गतवती नगरनिगमस्य स्वास्थ्यपदाधिकारी डॉ. चेतनचौहानः अवदत् यत् इङ्ग्लैण्ड्देशात् आगतं दम्पत्योः परिचितेभ्यः जन्मप्रमाणपत्रं प्रदत्तम्।
नगरनिगमस्य पार्श्वे १८७० तमस्य वर्षस्य अभिलेखाः सन्ति
नगरनिगमस्य कृते ब्रिटिशकालात् २०१५ पर्यन्तं जन्ममृत्यो: अभिलेखाः सन्ति। अस्मिन् १८७० तः १९४७ पर्यन्तं शिमलानगरे निवसतां ब्रिटिशनिवासिनः अभिलेखाः सन्ति।
