आपदाग्रस्तजनेभ्य: आश्रयं वितरिष्यत: राहुलः सुक्खुश्च; मण्ड्यां नवम्बर ९ दिनाङ्के आयोजनं सम्भाव्यते
हिमसंस्कृतवार्ता:- शिमला।
वरिष्ठकाङ्ग्रेसनेता राहुलगान्धी, मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: च आपदाप्रभावितजनानां कृते आश्रयप्रदानार्थं मण्डीभ्रमणं करिष्यत:। मुख्यमन्त्री सुक्खु- राहुलगान्धी- इत्यनयोः एषा यात्रा नवम्बरमासस्य ९ दिनाङ्के भविष्यति इति अपेक्षा अस्ति ।शिमलात: मण्डी- जिलाप्रशासनस्य, बिलासपुर- कुल्लू- प्रशासनस्य च अधिकारिभ्यः अस्य प्रस्तावितस्य प्रवासस्य सज्जतां सम्पन्नं कर्तुं निर्देशः दत्तः अस्ति। आश्रयवितरणकार्यक्रमः मण्डीनगरस्य पड्डलभूमौ भवितुं योजना अस्ति। मण्डीप्रशासनं सम्प्रति तेषां जनानां सूचीं अन्तिमरूपेण निर्धारयति येषां गृहाणि आपदि नष्टाणि अभवन्। मुख्यमन्त्री प्रभावितजनेभ्य: गृहस्य पुनर्निर्माणार्थं ४ लक्षरुप्यकाणां राशि: चेकमाध्यमेन प्रदास्यति।
बल्हप्रवास: स्थगित:
९ नवम्बर दिनाङ्के मण्डी-जनपदस्य मुख्यमन्त्री-भ्रमणस्य अन्तिमरूपं प्राप्तस्य अनन्तरं बल्ह-क्षेत्रस्य कान्सा-चतुष्पथि नवम्बर्-मासस्य ११ दिनाङ्के निर्धारितः कार्यक्रमः स्थगितः भविष्यति। प्रकाश चौधरी इत्यनेन उक्तं यत् बल्हयात्रायाः अग्रिमातिथिः ९ दिनाङ्के मुख्यमंत्रीतः याच्यते। १७-१८ नवम्बर यावत् मुख्यमन्त्री बल्हं आगमिष्यति इति अपेक्षा अस्ति।
आपदि ₹752 कोटि मूल्यस्य हानि:
मण्डीमण्डले वर्षा, मेघविस्फोटः च महत्विनाशं अजनयत्। अस्य मण्डलस्य ₹७५२ कोटिरूप्यकाणां हानिः अभवत्। अस्मिन् मण्डले पूर्णतया नष्टानां गृहाणां संख्या २८८, आंशिकरूपेण क्षतिग्रस्तानां गृहानाम् संख्या ५९३ अस्ति। वृष्ट्या हिमाचले ८,०२३ गृहाणि क्षतिग्रस्तानि सन्ति।
