Himachal News- ₹126.45 कोटिरूप्यकाणां व्ययेन निर्मितानि सप्तभवनानि रिक्तानि सन्ति, मुख्यमंत्रिण: अधिकारिभ्य: निर्देशा:
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्ये छात्राणां कृते गुणवत्तापूर्णं तकनीकीशिक्षणं प्रदातुं राज्यसर्वकारस्य प्राथमिकता अस्ति। सः अपि अवदत् यत् छात्राः विपण्य: आग्रहान् पूरयितुं कुशलाः भवन्ति, येन तेषां जीविकाक्षमता वर्धते। अद्य अत्र प्राविधिकशिक्षाविभागस्य कार्यानुष्ठानस्य समीक्षां कुर्वन् मुख्यमन्त्री रिक्तभवनानां स्थितिविषये चिन्तां प्रकटितवान्। सः अवदत् यत् २०१८ तः २०२३ पर्यन्तं ₹१२६.४५ कोटिरूप्यकाणां व्ययेन निर्मितानि सप्तभवनानि रिक्तानि सन्ति। सः विभागं जनहिताय एतेषां भवनानाम् इष्टतमप्रयोगाय कार्ययोजनां निर्मातुं निर्देशं दत्तवान्। केवलं निर्माणार्थं सर्वकारीयधनस्य अपव्ययः अस्वीकार्यम् इति सः अवदत्।
सुखविन्दरसिंहसुक्खुः तकनीकीशिक्षाविभागाय औद्योगिक- प्रशिक्षणसंस्थानां, पालिटेक्निक- महाविद्यालयानां च छात्रनामाङ्कनस्य, समग्रप्रदर्शनस्य, एतेषु संस्थानेषु उपलब्धानां अन्यसुविधानां च आधारेण वर्गं (ग्रेडिंग) कर्तुं निर्देशं दत्तवान्। सः अवदत् यत् राज्यसर्वकारः छात्राणां कृते गुणवत्तापूर्णशिक्षां प्रदातुं तकनीकीशिक्षाविभागं सुदृढं कर्तुं प्रतिबद्धः अस्ति। राज्यसर्वकारः प्राविधिकशिक्षणसंस्थासु रिक्तस्थानानि पूरयित्वा एतेभ्यः संस्थानेभ्यः सर्वसम्भवं समर्थनं प्रदास्यति। उदयीयमान- जीविकाक्षेत्राणां कृते युनां प्रशिक्षणार्थं तान्त्रिकशैक्षिकसंस्थासु नूतनानां पाठ्यक्रमानाम् आरम्भस्य आवश्यकतायाः अपि सः बलं दत्तवान्। बिलासपुरमण्डलस्य बदलाया: द्रव्यीय- अभियान्त्रिकी- महाविद्यालये ३० छात्राणां नामाङ्कनं कृत्वा एम. टेक. (EV-Tech) पाठ्यक्रमस्य प्रारम्भं कर्तुं सः प्रसन्नतां प्रकटितवान्।
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः हिमाचले नवीनतां प्रवर्धयति, उद्यमशीलतां प्रोत्साहयितुं “राज्यनवीनता- स्टार्टअपनीतिः- २०२५” च निर्माति। सः अवदत् यत् बिलासपुरमण्डलस्य घुमारवींनगरे नवीनता- उद्यम- कौशल- व्यावसायिक- अध्ययनस्य डिजिटल- विश्वविद्यालयस्य स्थापनायाः विषये सर्वकारः विचारयति, यस्य कृते २५८ बीघा-भूमिः चिह्निता अस्ति। सः हिमाचलप्रदेशकौशलविकासनिगमस्य, हिमाचलप्रदेशस्य प्राविधिकशिक्षामण्डलस्य च कार्यस्य समीक्षां कृत्वा तेषां कार्यानुष्ठानं सुदृढं कर्तुम् आवश्यकमार्गदर्शिकाः प्रदत्तवान्।
