नासिके केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिसरमध्ये त्रिदिनात्मकः युवमहोत्सवः (नवम्बरमासस्य तृतीयदिनात् पञ्चमदिनपर्यन्तम् २०२५ तमे वर्षे) भव्यरूपेण उद्घाटितः अभवत्।
सरस्वतीपूजनेन ध्वजारोहणेन क्रीडाज्योतिप्रज्वलनेन च उद्घाटनं कृतम्। दीपप्रज्वलनं नासिकपरिसरस्थैः विद्यार्थिभिः — महेश, वैभव, प्रथमेश, श्रेयश, रोहितेन च — कृतम्। विविधराज्येभ्यः आगताः विद्यार्थिनः स्वस्वपरम्परापरिधानैः ध्वजैः सह शोभायात्रायां सहभागीनः अभवन्।
मुख्यतिथि: भारतीययुवासंसदः राष्ट्रीयसंयोजकः श्रीः आशुतोषः जोशी नामकः आसीत्। सः अवदत् — “नासिकपरिसरे प्रथमवारं दक्षिणक्षेत्रीययुवामहोत्सवः आयोजितः अस्ति, अतः अत्र ‘लघुभारतस्य’ दर्शनं दृश्यते। तमिळनाडु, केरळ, कर्नाटक, महाराष्ट्रम् इत्येतैः राज्यैः आगताः संस्कृतविद्यार्थिनः स्वसंस्कृतेः एकत्रं दर्शनं कुर्वन्ति। एष एव ‘एकं भारतं श्रेष्ठं भारतं’ इत्यस्य संकल्पस्य २०४७ तमे वर्षे साकाररूपं दास्यति।”
विशिष्टातिथिः जयपुरपरिसरस्य सहनिदेशकः प्रा. बोधकुमारझा नामकः अवदत् — “भारतीययुवकाः इतिहासं परिवर्तयितुं समर्थाः। ‘एकं भारतं श्रेष्ठं भारतं’ इत्ययं संकल्पः भवद्भिः साकारः क्रियते।”
अध्यक्षपदे उपविष्टः प्रा. नीलाभतिवारी (निदेशकः, नासिकपरिसरः) अवदत् — “राष्ट्रीयशिक्षानीतिः २०२० अनुसारं पंचकोशात्मकविकासः एव युवासशक्तीकरणस्य वास्तविकं प्रतीकम् अस्ति। युवमहोत्सवः केवलं पदकप्राप्त्यर्थं नास्ति, किन्तु मानसिकशारीरकात्मिकविकासस्य प्रतीकः अस्ति।”
उद्घाटनसमये स्वागतवचनं डॉ. कुमारः, आभारप्रदर्शनं डॉ. शंकरआंधळे, सूत्रसंचालनं च डॉ. दत्तारामपाठकः अकुर्वन्।
⚽ क्रीडास्पर्धानां परिणामाः
उद्घाटनानन्तरं अमनथपलियाल् नामकः क्रीडाशपथं दत्तवान्, ततः स्पर्धाः आरब्धाः।
प्रधानफलानि –
१५०० मीटरः (पुरुषवर्गे) — श्रीः हरिके. यश (केरळराज्यः) प्रथमः।
४०० मीटरः (पुरुषवर्गे) — यदु कृष्णः एम् (केरळः) प्रथमः।
४०० मीटरः (स्त्रीवर्गे) — अन्तिमा वि. शर्मा (केरळः) प्रथमा।
१०० मीटरः (पुरुषवर्गे) — यदु कृष्णः एम् (केरळः) प्रथमः।
१०० मीटरः (स्त्रीवर्गे) — अन्तिमा वि. शर्मा (केरळः) प्रथमा।
उन्नतिलङ्घनम् — सत्यम् महंतः (केरळः) प्रथमः।
दीर्घलङ्घनम् — गौरी अम्बुजन् (केरळः) प्रथमा।
