भारतीयतीव्रकन्दुकक्षेपिकायै रेणुकासिंहायै मुख्यमंत्रिणा सुक्खुना एककोटिरूप्यकस्य पुरस्कार: उद्घोषित:
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, शिमला।
महिलाक्रिकेट- विश्वचषकप्रतियोगितायां भारतस्य विजये महत्त्वपूर्णं योगदानं दत्तवत्यै भारतीय- तीव्रकन्दुकक्षेपिकायै हिमाचलबालायै रेणुकासिंहायै पुरस्काररूपेण हिमाचलसर्वकारः एककोटिरुप्यकाणि दास्यति। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः सोमवारे एतां घोषणा अकरोत्। तेनोक्तं यत् “रोहडूनिवासिनी रेणुका ठाकुरनाम्नी बालिका तत्स्वप्नं साकारं कृतवती या प्रत्येकपर्वतीयबाला स्वप्नं पश्यति। संघर्षैः विजित्य विश्वचषकविजेतृसंघस्य अङ्गं भवितुम् एष देशस्य हिमाचलस्य च गौरवः अस्ति।” रेणुका एव दर्शयामास यत् यदि जिजीविषा विश्वासश्च भवेत्, तर्हि किमपि लक्ष्यं साध्यं भवेत्। मुख्यमन्त्रिणा रेणुका, तस्याः माता परिवार: च अस्याः सिद्धये अभिनन्दिताः। तेनोक्तं यत् “रेणुकायाः स्वर्गस्थपिता नम्यन्ते, यतः तस्य प्रेरणा अद्य सम्पूर्णहिमाचलस्य अभिमानम् अभवत्।” मुख्यमन्त्री सुक्खुः रेणुकासिंहां दूरभाषेण सम्बोधितवान्, ताम् अभिनन्दितवान् च। भारतीय- महिला- क्रिकेटसंघं विश्वचषकविजये अभिनन्द्य, रेणुकायाः तत्र प्रदर्शनम् अपि प्रशंसितवान्।
