राष्ट्रीय-एकता-दिवसः, सरदारवल्लभभाई पटेलः
राष्ट्रीय एकता दिवसः भारते ३१ अक्टोबर दिनाङ्के आचर्यते । भारतसर्वकारेण २०१४ तमे वर्षे अस्य आरम्भः कृतः। भारतस्य राजनैतिकसमायोजने प्रमुखा भूमिकां निर्वहन्तस्य वल्लभभाई पटेलस्य जन्मदिवसस्य स्मरणं भवति अयं दिवसः। भारतस्य गृहमन्त्रालयेन राष्ट्रीय एकता दिवसस्य आधिकारिकवक्तव्ये उक्तं यत् राष्ट्रीय एकता दिवसः “अस्माकं देशस्य एकतायाः, अखण्डतायाः, सुरक्षायाः च कृते वास्तविकस्य सम्भाव्यस्य च विघ्नानां सम्मुखं कर्तुम् अस्माकं राष्ट्रस्य निहितशक्त्याः परिचायकः अस्ति।
सरदारवल्लभभाई पटेलः
सरदारवल्लभभाई पटेलः भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति ।
किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः कृषियोग्यं ‘पट्ट’ इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां ‘पट्ट’ इति उच्यते । ते ‘पट्ट’ इत्यस्य क्रयणं कृतवन्तः । अतः ‘पाटीदार’ इति प्रसिद्धाः अभूवन् ।
अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः ‘लेउआ’, करड-नामकात् ग्रामात् आगताः ‘कडवा’ इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् ।
गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं समर्थः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे (२५) वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा १८५७ तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल ।
राष्ट्रीय-एकता-दिवसः, सरदारवल्लभभाई पटेलः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
